________________ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः रतसम्यग्दृष्धिईि मनुष्य देवायुषी अपि बध्नाति तीर्थकरनाम च, ततः शेषा एव त्रिचत्वारिंशत् प्रकृतयो वय॑न्ते। तथा देशविरतः 'त्रिपञ्चाशच्छेषाः' त्रिपञ्चाशद्वर्जाः शेषाः सप्तषष्टिप्रकृतीबध्नाति / तत्र त्रिचत्वारिंशत् प्रकृतयो बन्धायोग्याः प्राक्तन्य एव, शेषाः पुनरिमाः–अप्रत्याख्यानचतुष्टयं मनुष्यगतिः मनुष्यानुपूर्वी मनुष्यायुः औदारिकशरीरम् औदारिकाङ्गोपाङ्गं वज्रर्षभनाराचसंहननम् , एता हि दश प्रकृतयोऽविरतिहेतव इति न देशविरते बन्धमागच्छन्ति / तथा 'विरतः' प्रमत्तसंयतः 'सप्तपञ्चाशच्छेषाः' सप्तपञ्चाशद्वर्जाः शेषास्त्रिषष्टिप्रकृतीर्बध्नाति / तत्र त्रिपश्चाशद् बन्धायोग्याः प्राक्तन्य एव शेषास्तु चतस्रः प्रकृतयः प्रत्याख्यानावरणक्रोध-मान-माया-लोभरूपाः / एता हि देशविरत एव, बन्धं प्रतीत्य व्यवच्छिन्नाः // 57 // सम्प्रति प्रतिषेद्धव्याः प्रकृतयो बढ्यो बन्धयोग्यास्तु स्तोका इति बन्धयोग्या एव निर्दिशति इगुसहिमप्पमत्तो, बंधह देवाउयस्स इयरो वि। अट्ठावण्णमपुन्यो, छप्पण्णं वा वि छब्वीसं // 58 // . 'अप्रमत्तः' अप्रमत्तसंयत एकोनषष्टिप्रकृतीबध्नाति / ताश्च प्रमत्तसंयतस्य बन्धयोग्यास्त्रिषष्टिप्रकृतयोऽसातवेदनीया- रति-शोका-ऽस्थिरा-ऽशुभा-ऽयशःकीर्तिवर्जा आहारकद्विकसहिता वेदितव्याः / असातवेदनीयादयो हि षट् प्रकृतयः प्रमत्तसंयतगुणस्थानक एव बन्धं प्रतीत्य व्यवच्छिन्नाः, आहारकद्विकं चाप्रमत्तो विशिष्टसंयमभावाद बध्नाति, तत एकोनषष्टिप्रकृतयोप्रमत्तस्य बन्धयोग्याः / “देवाउयस्स इयरो वि"त्ति 'इतरोऽपि' अप्रमत्तोऽपि देवायुषो बन्धकः / एतेनैतत् सूच्यते-प्रमत्तसंयत एवायुर्बन्धं प्रथमत आरभते, आरभ्य च कश्चिदप्रमत्तभावमपि गच्छति, तत एवमप्रमत्तसंयतोऽपि देवायुषो बन्धको भवति, न पुनरप्रमत्तसंयत एव सन् प्रथमत आयुर्बन्धमारभत इति। तथा 'अपूर्वः' अपूर्वकरणोऽष्टपञ्चाशत् प्रकृतीर्बध्नाति, तस्य देवायुन्धाभावात् / ताश्चाष्टपञ्चाशत् प्रकृतीस्तावद् बध्नाति यावदपूर्वकरणाद्धायाः सङ्घषेयतमो भागो गतो भवति। ततो निद्रा-प्रचलयोरपि बन्धव्यवच्छेदात् षट्पञ्चाशत्प्रकृतीबध्नाति, ता अपि तावद् यावदपूर्वकरणाद्धाया एकः सङ्ख्येयतमो भागोऽवशिष्यते। ततो देवगति-देवानुपूर्वी-पञ्चेन्द्रियजाति-वैक्रियशरीर-वैक्रियाङ्गोपाङ्गा-ऽऽहारकशरीरा-ऽऽहारकाङ्गोपाङ्ग-तैजस-कार्मण-समचतुरलसंस्थान-वर्ण-रस-गन्ध-स्पर्शा-ऽगुरुलघु-उपघात-पराघात-उच्छास-प्रशस्तबिहायोगति-त्रस-बादर-पर्याप्त प्रत्येक-स्थिर-शुभ-सुभग-सुस्वरा-ऽऽदेय-निर्माण-तीर्थकररूपाणां त्रिंशत्प्रकृतीनां बन्धव्यवच्छेदात् शेषाः षड्विंशतिप्रकृतीबध्नाति, ता अपि तावद् बध्नाति यावदपूर्वकरणाद्धायाश्चरमसमयः, तस्मिंश्च समये हास्य-रति-भय-जुगुप्सा बन्धं प्रतीत्य व्यवच्छिद्यन्ते // 58 // ततः पाबीसा एगणं, बंधह अट्ठारसंतमनियही / सत्तर सुहुमसरागो, सायममोहो सजोगि ति // 59 // 'अनिवृत्तिः' अनिवृत्तिबादरो द्वाविंशतिप्रकृतीर्बध्नाति / ताश्च तावद् यावदनिवृत्तिबादरस१ मुद्रिक बद्धा में // 2 सं० 1 त० म० °त एवायुर्वन्धं प्रथमत आर° // .