________________ 58-61] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 245 म्परायाद्धायाः सङ्ख्यया भागा गता भवन्ति, एकोऽवतिष्ठते, ततः ‘एकोनम्' एकैकप्रकृत्यूनं बध्नाति तावद् यावदष्टादशान्तम् / एतदुक्तं भवति-तस्मिन् सहयेयतमे भागे शेषे पुरुषवेदबन्धव्यवच्छेदात् शेषा एकविंशतिप्रकृतीर्बध्नाति, ता अपि तावद् यावत् तस्याः शेषीभूताया अदायाः सद्ध्येया भागा गता भवन्ति, एकः शिष्यते ततः संज्वलनक्रोधस्यापि बन्धव्यवच्छेदाद् विंशतिप्रकृतीबंध्नाति, ता अपि तावद् यावत् तस्याः शेषीभूताया अद्धायाः सङ्ख्यया भागा गता भवन्ति, एकोऽवतिष्ठते; ततः संज्वलनमानस्यापि बन्धव्यवच्छेदादेकोनविंशतिप्रकृतीबध्नाति, ता अपि तावद् यावत् तस्याः शेषीभूताया अद्धायाः सङ्ख्येया भागा गता भवन्ति, एकोऽवतिष्ठते; ततः संज्वलनमायाया अपि बन्धव्यवच्छेदादष्टादशप्रकृतीबध्नाति, ताश्च तावद् यावदनिवृत्तिबादरसम्परायाद्धायाश्चरमसमयः; तस्मिंश्च समये संज्वलनलोभोऽपि बन्धं प्रतीत्य व्यवच्छिद्यते / ततः सूक्ष्मसम्परायः शेषाः सप्तदश प्रकृतीबध्नाति, ताश्च तावद् यावत् सूक्ष्मसम्परायाद्धायाश्चरमसमयः; तस्मिश्च समये ज्ञानावरणपञ्चका-ऽन्तरायपश्चक-दर्शनावरणचतुष्टय-यशःकीर्ति-उच्चैर्गोत्ररूपाः षोडश प्रकृतयो बन्धमधिकृत्य व्यवच्छिद्यन्ते / ततः “सायममोहो सजोगि" त्ति 'अमोहः' मोहनीयोदयरहितः सातमेवैकं बध्नाति, स च तावद् यावत् 'सयोगी' सयोग्यवस्थाचरमसमय इत्यर्थः / इदमुक्तं भवति-उपशान्तमोहः क्षीणमोहः सयोगकेवली च सातमेकं बध्नाति / अयोगिकेवली त्वेकस्यापि बन्धहेतोरभावाद् न किमपि बध्नातीति // 59 // एसो उ बंधसामित्तओघाँ गइयाइएसु वि तहेव / ओहाओ साहिज्जा, जत्थ जहा पगडिसम्भावो / 60 // योऽयमनन्तरं प्राग् मिथ्यादृष्ट्यादिषु सयोगिकेवलिपर्यन्तेषु बन्धभेद उक्त एष बन्धस्वामित्वौघ उच्यते / अस्माद् 'ओघात्' ओघभणितप्रकाराद् ‘गत्यादिष्वपि' चतुर्दशसु मार्गणास्थानेषु 'यत्र' मार्गणास्थाने 'यथा' येन प्रकारेण भवप्रत्ययादिना प्रकृतिसद्भावो घटते तत्र तथा 'साधयेत्' कथयेत् , यथैताः प्रकृतयोऽस्मिन् मार्गणास्थाने बन्धं प्रतीत्य घटन्त इति // 60 // ___ सम्प्रति किं सर्वा अपि प्रकृतयः सर्वासु गतिषु प्राप्यन्ते ? किं वा न ? इति संशये सति * तदपनोदार्थमाह तित्थगरदेवनिरयाउगं च तिसु तिसु गईसु बोद्धव्वं / अवसेसा पयडीओ, हवंति सव्वासु वि गईसु // 61 // तीर्थकरनाम देवायुर्नरकायुश्च प्रत्येकं तिसृषु तिसृषु गतिषु बोद्धव्यम् / तथाहि-तीर्थकरनाम नरक-देव-मनुष्यगतिरूपासु तिसृषु गतिषु सत् प्राप्यते, न तिर्यग्गतावपि, तीर्थकरसत्कर्मणस्तिर्यक्षुत्पादाभावात् ; तत्र गतस्य च तीर्थकरनामबन्धासम्भवात् , तथाभवस्वाभाव्यात् / तथा तिर्यङ्-मनुष्य-देवगतिषु च देवायुः, न नरकगतौ, नैरयिकाणां देवायुर्बन्धासम्भवात् / 1 सं०१ त० म० °श्वरमस' // 2 सं० 1 त० म० °रणान्तरायप° // 3 म० छा० तओहु ग॥