________________ 55-57 ] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 243 दूर्ध्वमुदीरणा न भवति किन्तूदय एव केवलः 31 / तथा मनुष्यगति-पञ्चेन्द्रियजाति-त्रसबादर-पर्याप्त-सुभगा-ऽऽदेय-यशःकीर्ति-तीर्थकररूपाणां नैवनामप्रकृतीनां 40 उच्चैर्गोत्रस्य च 41 सयोगिकेवलिगुणस्थानकं यावद् युगपद् उदय-उदीरणे, अयोग्यवस्थायां तूदय एव नोदीरणा // 55 // सम्प्रति कस्मिन् गुणस्थानके काः प्रकृतीबंध्नाति ? इति बन्धविशेषनिरूपणार्थमाह तित्थगराहारगविरहियाऔं अज्जेइ सव्वपगईओ / मिच्छत्तवेयगो सासणो वि इगुवीससेसाओ॥५६॥ इह बन्धे प्रकृतीनां विंशं शतमधिक्रियते, एतच्च प्रागेव प्रकृतिवर्णनायामुक्तम् / तत्र 'मिथ्यात्ववेदकः' मिथ्यादृष्टिः 'तीर्थकर-ऽऽहारकरहिताः' तीर्थकरा-ऽऽहारकशरीरा-ऽऽहारकाङ्गोपाजवर्जाः शेषाः सर्वा अपि प्रकृतीः सप्तदशोत्तरशतसङ्ख्याः 'अर्जयति' बध्नाति, तीर्थकरा-ssहारकद्विके तु न तस्य बन्धमायातः, तयोर्यथासङ्ख्यं सम्यक्त्व-संयमप्रत्ययत्वात् / तथा 'सासादनोऽपि' सासादनसम्यग्दृष्टिरपि 'एकोनविंशतिशेषाः' एकोनविंशतिवर्जाः शेषा एकोत्तरशतसङ्ख्याः प्रकृतीबध्नाति / तत्र तिस्रः प्रकृतयः प्राक्तन्य एव, तासां बन्धाभावे कारणमिहापि तदेवानुसरणीयम् ; शेषास्तु षोडश प्रकृतय इमाः-मिथ्यात्वं नपुंसकवेदः नरकगतिः नरकानुपूर्वी नरकायुः एक-द्वि-त्रि-चतुरिन्द्रियजातयः हुण्डसंस्थानं सेवार्तसंहननम् आतपनाम स्थावरनाम सूक्ष्मनाम साधारणनाम अपर्याप्तकनामेति / एता हि मिथ्यात्वोदयनिमित्ताः, न च मिथ्यात्वोदयः सासादने विद्यते इत्येता अपि सासादनस्य न बन्धमायान्ति // 56 // छायालसेस मीसो, अविरयसम्मो तियालपरिसेसा। तेवण्ण देसविरओ, विरओ सगवण्णसेसाओं // 57 // 'मिश्रः' सम्यग्मिथ्यादृष्टिः 'षट्चत्वारिंशच्छेषाः' षट्चत्वारिंशद्वर्जाः चतुःसप्ततिसञ्जयाः प्रकृतीर्वधाति / तत्रैकोनविंशतिप्रकृतयो बन्धायोग्याः प्राक्तन्य एव, शेषास्त्विमाः-स्त्यानचित्रिकम् अनन्तानुबन्धिचतुष्टयं स्त्रीवेदः तिर्यग्गतिः तिर्यगानुपूर्वी तिर्यगायुः प्रथमा-ऽन्तिमवर्जानि चत्वारि संस्थानानि प्रथमा-ऽन्तिमवर्जानि चत्वारि संहननानि उद्योतम् अप्रशस्तविहायोगतिः दुर्भगं दुःस्वरम् अनादेयं नीचैर्गोत्रमिति / एताः पञ्चविंशतिप्रकृतयोऽनन्तानुबन्ध्युदयनिमित्ताः, न च सम्यग्मिथ्यादृष्टावनन्तानुबन्धिनामुदयोऽस्ति, ततो न बन्धमायान्ति / अन्यच्च सम्यग्मिथ्यादृष्टिरायुर्बन्धमपि नारभते, ततो मनुष्य-देवायुषी अपि न बन्धमायात इति षट्चत्वारिंशदप्येताः प्रतिषिध्यन्ते / तथा अविरतसम्यग्दृष्टिस्त्रिचत्वारिंशद्वर्जाः शेषाः सप्तसप्ततिप्रकृतीर्बध्नाति / अवि. 1 इत ऊर्ध्वम्-मणुयगइजाइतसबादरं च पजत्तसुभगमाइजं। जसकित्ती तित्थयरं, नामस्स हवंति नव एया॥ इत्येषा गाथा सूत्रगाथातयोपात्ता मुद्रितादर्श एव विद्यते न चास्मत्पार्श्ववर्तिषु समप्रादर्शेष्विति नाहताऽस्माभिरत्र // 2 सं० १त. म० छा० नवानां नामप्र° // .