________________ 242 * मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथा: इह कालप्राप्तानां कर्मपरमाणूनामनुभवनमुदयः, अकालपाप्तानामुदयावलिकाबहिःस्थितानां कषायसहितेनासहितेन वा योगसंज्ञकेन वीर्यविशेषेण समाकृष्योदयप्राप्तैः कर्मपरमाणुभिः सहानुभवनमुदीरणा, अनयोरुदय-उदीरणयोः 'स्वामित्वात्' स्वामित्वमधिकृत्य विशेषो न विद्यते / एतदुक्तं भवति–य एव ज्ञानावरणादीनां कर्मणामुदयस्वामी स एव तेषां कर्मणामुदीरणाया अपि स्वामी, “जत्थ उदओ तत्थ उदीरणा, जत्थ उदीरणा तत्थ उदओ।" ( ) इतिवचनप्रामाण्यात् / तत्रातिप्रसक्तं लक्षणमित्यपवादमाह-"मोत्तूण य” इत्यादि / 'मुक्त्वा एकचत्वारिंशतं' एकचत्वारिंशत्प्रकृतीर्मुक्त्वा शेषाणां सर्वासां प्रकृतीनामुदय-उदीरणयोः स्वामिनं प्रति न विशेषः // 54 // एकचत्वारिंशत्प्रकृतीनिर्दिशति नाणंतरायदसगं, दसणनव वेयणिज मिच्छत्तं / सम्मत्त लोभ वेयाऽऽउँगाणि नवनाम उच्चं च // 55 // एतासामेकचत्वारिंशत्प्रकृतीनामुदीरणामन्तरेणाप्युदयो भवति / तथाहि-पञ्चानां ज्ञाना-. . वरणप्रकृतीनां 5 पञ्चानामन्तरायप्रकृतीनां 10 चतसृणां च चक्षुः-अचक्षुः-अवधि-केवलदर्शनावरणरूपाणां दर्शनावरणप्रकृतीनामुदय उदीरणा च सर्वजीवानां युगपत् तावत् प्रवर्तते यावत् क्षीणमोहगुणस्थानकाद्धाया आवलिकाशेषो न भवति 14, आवलिकायां तु शेषीभूतायामुदय एव नोदीरणा, आवलिकागतस्योदीरणानहत्वात् / निद्रापञ्चकस्य शरीरपर्याप्त्या पर्याप्तानां शरीरपर्याप्तिसमाप्त्यनन्तरसमयाद् आरभ्य यावद् इन्द्रियपर्याप्तिपरिसमाप्तिर्नोपजायते तावद् उदय एव नोदीरणा, शेषकालं तूदय-उदीरणे युगपत् प्रवर्तेते युगपञ्च निवर्तेते 15 / द्वयोवेंदनीययोः पुनः प्रमत्तगुणस्थानकं यावद् उदय उदीरणा च युगपत् प्रवर्तते, परतस्तूदय एव नोदीरणा 21 / तथा प्रथमसम्यक्त्वमुत्पादयतोऽन्तरकरणे कृते सति प्रथमस्थितावावलिकाशेषायां मिथ्यात्वस्योदय एव नोदीरणा 22 / तथा वेदकसम्यग्दृष्टिना क्षायिकसम्यक्त्वमुत्पादयता मिथ्यात्व-सम्यग्मिथ्यात्वयोः क्षपितयोः सम्यक्त्वं सर्वापवर्तनयाऽपवर्त्य अन्तर्मुहूर्तस्थितिकं कृतम् , तत उदय-उदीरणाभ्यामनुभूयमानमनुभूयमानमावलिकाशेषं यदा भवति तदा सम्यक्त्वस्योदय एव नोदीरणा; अथवा उपशमश्रेणिं प्रतिपद्यमानस्य अन्तरकरणे कृते सति प्रथमस्थितावावलिकाशेषायां सम्यक्त्वस्योदय एव नोदीरणा 23 / संज्वलनलोभस्य उदय उदीरणा च युगपत् तावत् प्रवर्तते यावत् सूक्ष्मसम्परायाद्धाया आवलिका शेषा, तत आवलिकामानं कालमुदय एव नोदीरणा 24 / तथा त्रयाणां वेदानामन्यतमेन तेन तेन वेदेन श्रेणिं प्रतिपन्नस्यान्तरकरणे कृते तस्य तस्य वेदस्य प्रथमस्थितावावलिकाशेषायामुदय एव नोदीरणा 27 / चतुर्णामप्यायुषां स्वस्वभवपर्यन्तावलिकायामुदय एव नोदीरणा, अन्यच्च मनुष्यायुषः प्रमत्तगुणस्थानका 1 यत्र उदयस्तत्र उदीरणा, यत्र उदीरणा तत्र उदयः // 2 सं० 1 त० म० छा० मुत्तूणं // 3 सं० 1 त० म० उयाणि // 4 सं० सं०२रणप्रकृती // 5 सं० सं०१ म० नमावलि // 6 सं०१ सं० 2 त० म० °काशषः //