________________ 218 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः मिथ्यादृश्यादिष्वपूर्वकरणपर्यवसानेषु यथासङ्ख्यमष्टषष्ट्यादिसङ्ख्यानि उदयपदानि भवन्ति, तथाहि-मिथ्यादृष्टौ चत्वार्युदयस्थानानि, तद्यथा-सप्त अष्टौ नव दश / तत्र दशोदय एको दशभिर्गुण्यते, जाता दश; नवोदयास्त्रयो नवभिः, जाता सप्तविंशतिः; अष्टोदयास्त्रयोऽष्टमिः, जाता चतुर्विंशतिः; सप्तोदयश्चैकः सप्तभिः, जाताः सप्त; सर्वसङ्ख्यया अष्टषष्टिः 68 / एवं द्वात्रिंशदादीनामपि उदयपदानां भावना कर्तव्या / सर्वसङ्ख्यया त्रीणि शतानि द्विपञ्चाशदधिकानि 352 / एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते, जातानि अष्टचत्वारिंशदधिकानि चतुरशीतिशतानि 8448 / द्विकोदया द्वादश द्वाभ्यां गुण्यन्ते, जाता चतुर्विंशतिः; एकोदयपदानि पञ्च, सर्वसङ्ख्यया एकोनत्रिंशत् / सा च पूर्वराशौ प्रक्षिप्यते, ततो जातानि सप्तसप्तत्यधिकानि चतुरशीतिशतानि 8477 / एतानि वाग्योगचतुष्टय-मनोयोगचतुष्टय-औदारिककाययोगसहितानि प्राप्यन्ते इति नवभिर्गुण्यन्ते, जातानि षट्सप्ततिसहस्राणि द्वे शते त्रिनवत्यधिके 76293 / ततो वैक्रियकाययोगे मिथ्यादृष्टेरष्टषष्टिसयानि उदयपदानि, एतानि च प्राग्वद् भावनीयानि / वैक्रियमिश्रे औदारिकमिश्रे कार्मणकाययोगे च प्रत्येकं षट्त्रिंशत् षट्त्रिंशदुदयपदानि / वैक्रियमिश्रादौ हि उदयपदान्यनन्तानुबन्ध्युदयसहितान्येव प्राप्यन्ते, न शेषाणि, कारणं प्रागेवोक्तम् , ततः षट्त्रिंशत् षट्त्रिंशदेव भवन्ति / तथाहि—एकोऽष्टोदयो द्वौ नवोदयौ एको दशोदयोऽनन्तानुबन्धिसहितः प्राप्यते / ततोऽष्टोदय एकोऽष्टभिर्गुण्यते, तत्राष्टौ पदानि सन्तीति कृत्वा, ततो जाता अष्टौ; नवोदयौ द्वौ नवभिः, जाता अष्टादश; दशोदय एको दशभिः, जाता दश; सर्वसङ्ख्यया षट्त्रिंशत् / एवमन्यत्रापि भावना स्वधिया कर्तव्या / सासादनस्य वैक्रियकाययोगे औदारिकमिश्रे कर्मिणकाययोगे च द्वात्रिंशद् द्वात्रिंशत् / सम्यग्मिथ्यादृष्टे_क्रियकाययोगे द्वात्रिंशत् / अविरतसम्यग्दृष्टे_ क्रियकाययोगे षष्टिः 60 / देशविरतस्य वैक्रिये वैक्रियमिश्रकाययोगे च प्रत्येकं द्विपञ्चाशद् द्विपञ्चाशत् / प्रमत्तसंयतस्य वैक्रिये वैक्रियमिश्रे च प्रत्येकं चतुश्चत्वारिंशत् चतुश्चत्वारिंशत् / अप्रमत्तसंयतस्य वैक्रियकाययोगे चतुश्चत्वारिंशत् / सर्वसङ्ख्यया षट् शतानि 600 / एतानि च चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते, जातानि चतुर्दश सहस्राणि चत्वारि शतानि 14400 / एतानि पूर्वराशौ प्रक्षिप्यन्ते / तथा सासादनस्य वैक्रियमिश्रे द्वात्रिंशदुदयपदानि, एतेषु नपुंसकवेदो न लभ्यते, युक्तिरत्र प्रागेवोक्ता / अविरतसम्यग्दृष्टेक्रियमिश्रे कार्मणकाययोगे च प्रत्येकं षष्टिः षष्टिः, अत्र स्त्रीवेदो न लभ्यते, कारणं प्रागेवोक्तम् / प्रमत्तसंयतस्य आहारके आहारकमिश्रे च प्रत्येकं चतुश्चत्वारिंशत् चतुश्चत्वारिंशत् / अप्रमत्तसंयतस्याहारककाययोगे चतुश्चत्वारिंशत् , अत्रापि स्त्रीवेदो न लभ्यते, युक्तिः प्रागेवोक्ता / सर्वसङ्ख्यया द्वे शते चतुरशीत्यधिके 284 / एतानि चोक्तप्रकारेण "द्विवेदसहितान्येव प्राप्यन्ते इति द्विवेदसम्भवैः षोडशभिर्गुण्यन्ते जातानि चतुश्चत्वारिंशदधिकानि पञ्चचत्वारिंशच्छतानि 4544, तानि पूर्वराशौ प्रक्षिप्यन्ते / अविरतसम्यग्दृष्टेरौदारिकमिश्रकाययोगे षष्टिरुदयपदानि / एतानि 1 सं० 1 त० म० छा० °बन्ध्युदयस // 2 सं० 1 त० म० छा० °किये बैंक्रियमि // 3 छा० मुद्रि युक्तिरत्र प्रा॥ 4 सं० 1 त० म० द्विविधवेद° //