________________ 47] - चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 219 पुरुषवेदे एव प्राप्यन्ते, न स्त्रीवेदनपुंसकवेदयोः, कारणमत्र प्रागेवोक्तम् , तत एतानि अष्टमिर्गुण्यन्ते जातानि चत्वारि शतानि अशीत्यधिकानि 480 / एतान्यपि पूर्वराशौ प्रक्षिप्यन्ते, ततो जातः पूर्वराशिः पश्चनवतिसहस्राणि सप्त शतानि सप्तदशाधिकानि 95717 / एतावन्ति योगगुणितानि पदवृन्दानि / उक्तं च सत्तरसा सत्त सया, पणनउइसहस्स पयसंखा / 95717 ( सम्प्रत्युपयोगगुणिता उदयभङ्गा भाव्यन्ते तत्र मिथ्यादृष्टौ सासादने च प्रत्येक मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञान-चक्षुः-अचक्षुर्दर्शनरूपाः पञ्च पञ्च उपयोगाः। सम्यग्मिथ्यादृष्टि-अविरतसम्यग्दृष्टि-देशविरतानां मति-श्रुता-ऽवधिज्ञान-चक्षुः-अचक्षुः-अवधिदर्शनरूपाः प्रत्येकं षट् षट् / प्रमत्तादीनां सूक्ष्मसम्परायान्तानां त एव षड् मनःपर्यवज्ञानसहिताः सप्त / मिथ्यादृष्ट्यादिषु च चतुर्विशतिगता उदयस्थानविकल्पाः "अट्ठग चउ चउ चउरट्ठगा य" ( अन्तर्भाष्यगा०६) इत्यादिना ये प्राग उक्तास्ते यथायोगमुपयोगैर्गुण्यन्ते, तद्यथा-मिथ्यादृष्टरष्टौ सासादने चत्वारः मिलिता द्वादश, ते पञ्चभिरुपयोगैर्गुण्यन्ते जाता षष्टिः 60 / मिश्रस्य चत्वार उदयस्थानविकल्पाः, अविरतसम्यग्दृष्टेरष्टौ, देशविरतस्याप्यष्टौ, सर्वसङ्ख्यया विंशतिः, सा च षडिरुपयोगैर्गुण्यते जातं विशं शतम् 120 / तथा प्रमत्तस्याष्टौ उदयस्थानविकल्पाः, अप्रमत्तस्याप्यष्टौ, अपूर्वकरणस्य चत्वारः, सर्वे मिलिता विंशतिः, सा सप्तभिरुपयोगैर्गुण्यते जातं चत्वारिंशं शतम् 140 / सर्वसत्या त्रीणि शतानि विंशानि 320 / ये त्वाचार्या मिश्रेऽपि मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञान-चक्षुर्दर्शना-ऽचक्षुर्दर्शनरूपान् पञ्चैवोपयोगान् इच्छन्ति तेषां मैंतेन त्रीणि शतानि षोडशोत्तराणि 316 / एतानि चतुर्विंशतिगतानीति चतुर्विशत्या गुण्यन्ते, ततो जातानि अशीत्यधिकानि षट्सप्ततिशतानि 7680, मतान्तरेण पञ्चसप्ततिशतानि चतुरशीत्यधिकानि 7584 / ततो द्विकोदयभगा द्वादश, एकोदयभङ्गाः पञ्च, सर्वे मिलिताः सप्तदश, ते सप्तभिर्गुण्यन्ते जातमेकोनविंशं शतम् 119 / तत् पूर्वराशौ प्रक्षिप्यते ततः पूर्वराशिर्जातो नवनवत्यधिकानि सप्तसप्ततिशतानि 7799, मतान्तरेण सप्तसप्ततिशतानि व्युत्तराणि 7703 / उक्तं च उदयाणुवओगेसुं, सगसयरिसया तिउत्तरा होति / 7703 ( एतावन्त उपयोगगुणिता उदयभङ्गाः। सम्प्रति पदवृन्दानि उपयोगगुणितानि भाव्यन्ते-तत्रोदयस्थानपदानि चतुर्विंशतिगतानि "अट्ठी बत्तीस" ( अन्तर्भाष्यगा० 7) इत्यादिना यानि प्राग उक्तानि तानि यथायोगमुपयोगैर्गुण्यन्ते / तत्र मिथ्यादृष्टरष्टषष्टिरुदयस्थानपदानि, सासादनस्य द्वात्रिंशत् , मिलितानि शतम् 100, तत् पञ्चमिरुपयोगैर्गुण्यते जातानि पञ्च शतानि 500 / सम्यग्मिथ्यादृष्टेभत्रिंशत्, अविरतसम्यग्दोः षष्टिः, देशविरतस्य द्विपञ्चाशत् , सर्वमीलने चतुश्चत्वारिंशं शतम् 144, एतत् षड्भिरु सप्तदशानि सप्त शतानि पञ्चनवतिसहस्राणि पदसंख्या // 2 सं० सं०२त० छा०प्त सप्त / मि॥ .3 सं० 1 त० म० मते श्री // 4 इत ऊर्ध्वम्-छा० ग्रन्थानम् 2418 // 5 उदयानामुपयोगेषु सप्तकप्ततिशतानि भ्युत्तराणि भवन्ति //