________________ 17] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 217 सादाभावत् / ये चाविरतसम्यग्दृष्टेवैक्रियमिश्रे कार्मणकाययोगे च प्रत्येकमष्टावष्टौ उदयस्थानविकल्पा ऐषु स्त्रीवेदो न लभ्यते, वैकियकाययोगिषु स्त्रीवेदिषु मध्येऽविरतसम्यग्दष्टेरुत्पादाभावात् / एतच्च प्रायोवृत्तिमाश्रित्योक्तम् , अन्यथा कदाचित् बीवेदिष्वपि मध्ये तदुत्पादो भवति / उक्तं च चूर्णी कयाइ होज्ज इथिवेयगेसु वि / ( ) इति / प्रमत्तसंयतस्य आहारककाययोगे आहारकमिश्रकाययोगे च अप्रमत्तसंयतस्य आहारककाययोगे ये प्रत्येकमष्टावष्टावुदयस्थानविकल्पास्तेऽपि स्त्रीवेदरहिता वेदितव्याः, आहारकं हि चतुर्दशपूर्विणो भवति, "आहारं चोद्दसपुषिणो उ" ( ) इति वचनात् ; न च खीणां चतुर्दशपूर्वाधिगमः सम्भवति, सूत्रे प्रतिषेधात् / तदुक्तम् तुच्छा गारवबहुला, चलिंदिया दुब्बला य धीईए। इय अइसेसज्झयणा, भूयावाओ य नो थीणं // (बृ० कल्प० गा० 146) भूतवादो नाम दृष्टिवादः / एते सर्वेऽप्युदयस्थानविकल्पाः सर्वसषया चतुश्चत्वारिंशत् 44 / एतेषु चोक्तप्रकारेण द्वौ द्वावेव वेदो लब्धौ, ततः प्रत्येकं षोडश षोडश भनाः, ततश्चतुश्चत्वारिंशत् षोडशभिर्गुण्यते जातानि सप्त शतानि चतुरधिकानि 704, तानि पूर्वराशौ प्रक्षिप्यन्ते / तथाऽविरतसम्यग्दृष्टेरौदारिकमिश्रकाययोगे येऽष्टावुदयस्थानविकल्पास्ते पुंवेदसहिता एव प्राप्यन्ते, न स्त्रीवेद-नपुंसकवेदसहिताः, तिर्यग्-मनुष्येषु स्त्रीवेद-नपुंसकवेदिषु मध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात् ; एतच्च प्राचुर्यमाश्रित्योक्तम् , तेन मल्लिस्वामिन्यादिभिर्न व्यभिचारः / एतेषु चैकेन वेदेन प्रत्येकमष्टावष्टावेव भगा लभ्यन्ते, ततोऽष्टौ अष्टभिर्गुण्यन्ते जाताश्चतुःषष्टिः 64, सा च पूर्वराशौ प्रक्षिप्यते, तत आगतानि चतुर्दश सहस्राणि शतं चैकोनसप्तत्यधिकम् 14169 / एतावन्तो मिथ्यादृष्ट्यादिधुं सूक्ष्मसम्परायपर्यवसानेषु गुणस्थानकेषु उदयभना योगगुणिताः प्राप्यन्ते / तदुक्तम्. चंउदस य सहस्साई, सयं च गुणहत्तरं उदयमाणं 14169 / ( ) सम्प्रति पदवृन्दानि योगगुणितानि भाव्यन्ते / तत्रोदयपदप्ररूपणार्थमियमन्तर्भाग्यगाथा-- . अंदृट्ठी बत्तीसं, बत्तीसं सट्टिमेव बावन्ना / . . ___ चोयालं चोयालं, वीसा वि य मिच्छमाईसु // 7 // 1 सं० 1 त०म० वे वर्तमानस्य कार्म // 2 सं०१ त०म० एतेषु // 3 सं०१२० म० छा० श्रीवेदेष्व°॥ 4 कदाचिद् भवेत् स्त्रीवेदकेष्वपि / / 5 आहारक चतुर्दशपूर्विणस्तु / / 6 तुच्छा गौरवबहुलाः चलेन्द्रिया दुर्बलाश्च धृत्या / इत्यतिशेषाध्ययनाः भूतवादश्च नो स्त्रीणाम् // 7 मुद्रि० °षु अपूर्वकरणप // 8 चतुर्दश च सहस्राणि शतं च एकोनसप्ततमुदयमानम् // 9 गाथेय वृत्तिद्भिरतर्भाष्यगाथात्वेनो ल्लिखिताऽपि चर्णिकृद्भिर्नान्तर्भाष्यगाथात्वेन निर्दिष्टा // 28