________________ 216 __ मलमगिरिमहर्षिविनिर्मितविकृत्युभेतं [गाया इह मिथ्याश्याविषु सूक्ष्मसम्परायपर्यवसानेषु सर्वसङ्ख्ययोदयभङ्गाः पञ्चषश्यधिकानि द्वादश शतानि 1265 / तत्र वाग्योगचतुष्टय-मनोयोगचतुष्टय-औदारिककाययोगाः सर्वेष्वपि मिथ्या-दृश्यादिषु दशभु गुणस्थानकेषु सम्भवन्तीति ते नवभिर्गुण्यन्ते, ततो जातान्येकादश सहस्राणि त्रीणि प शतानि पञ्चाशीत्यधिकानि 11385 / तथा मिथ्यादृष्टे_क्रियकाययोगेऽष्टापि चतुर्विंशतयः प्राप्यन्ते, वैक्रिममिश्रे औदारिकमिश्रे कार्मणकाययोगे च प्रत्येकं. चतस्रश्चतस्रः, एताश्च या अनन्तानुबन्ध्युदयसहितास्ता एव द्रष्टव्याः / यास्त्वनन्तानुबन्ध्युदयरहितास्ता अत्र न प्राप्यन्ते / किं कारणम् ? इति चेद् उच्यते-इह येन पूर्व वेदकसम्यग्दृष्टिना सता अनन्तानुबन्धिनो विसंयोजिता विसंयोज्य च परिणामपरावृत्त्या सम्यक्त्वात् प्रच्युत्य मिथ्यात्वं गतेन भूयोऽप्यनन्तानुबन्धिनो बन्दुमारभ्यन्ते तस्यैव मिथ्यादृष्टेर्बन्धावलिकामानं कालं यावदनन्तानुबन्ध्युदयो न प्राप्यते, न शेषस्य; अनन्तानुबन्धिनश्च विसंयोज्य भूयोऽपि मिथ्यात्वं प्रतिपद्यते जघभ्यतोऽप्यन्तर्मुहूर्तावशेषायुष्क एव, अनन्तानुबन्ध्युदयरहितस्य मिथ्यादृष्टेः कालकरणप्रतिषेधात् / तथोक्तम्- . कुंणइ जं न सो कालं / ( ) इति / ततस्तस्मिन्नेव भवे वर्तमानो मिथ्यात्वप्रत्ययेन भूयोऽप्यनन्तानुबन्धिनो बध्नाति, बन्धावलिकातीतांश्च प्रवेदयते / ततोऽपान्तरालगतौ वर्तमानस्य भवान्तरे वा प्रथमत उत्पन्नस्य मिथ्यादृष्टेः सतोऽनन्तानुबन्ध्युदयरहिता उदयविकल्पा न प्राप्यन्ते / अत्र च कार्मणकाययोगोऽपान्तरालगतौ औदारिकमिश्रकाययोग-वैक्रियमिश्रकाययोगौ च भवान्तरे उत्पद्यमानस्य, ततः कार्मणकाययोगादौ प्रत्येकं चतस्रश्चतस्रश्चतुर्विंशतयोऽनन्तानुबन्ध्युदयरहिता न प्राप्यन्ते / वैक्रियमिश्रकाययोगो भवान्तरे प्रथमत एवोत्पद्यमानस्य भवति' इति यदुक्तं तद् बाहुल्यमाश्रित्योक्तम् , अन्यथा तिर्यङ्-मनुष्याणामपि मिथ्यादृशां वैक्रियकारिणां वैक्रियमिश्रमवाप्यत एव, परं चूर्णिकृता तद् नात्र विवक्षितमित्यस्माभिरपि न विवक्षितम् , एवमुत्तरत्रापि चूर्णिकारमार्गानुसरणं परिभावनीयम् / तथा सासादनस्य कार्मणकाययोगे वैक्रियकाययोगे औदारिकमिश्रकाययोगे च प्रत्येकं चतस्रश्चतस्रश्चतुर्विंशतयः, सम्यग्मिथ्यादृष्टक्रियकाययोगे चतस्रः, अविरतसम्यग्दृष्टेक्रियकाययोगेऽष्टौ, देशविरतस्य वैक्रिये वैक्रियमिश्रकाययोगे च प्रत्येकमष्टावष्टौ, प्रमत्तसंयतस्यापि वैक्रिये वैक्रियमिश्रे च प्रत्येकमष्टावष्टौ, अप्रमत्तसंयतस्य वैक्रियंकाययोगेऽष्टौ, सर्वसङ्ख्यया चतुरशीतिश्चतुर्विंशतयः / चतुरशीतिश्चतुर्विंशत्या गुणिता जातानि षोडशाधिकानि विंशतिशतानि 2016, तानि पूर्वराशौ प्रक्षिप्यन्ते / तथा सासादनस्य वैक्रियमिश्रे वर्तमानस्य थे चत्वारोऽप्युदयस्थानविकल्पाः, तद्यथा-सप्तोदय एकविधः अष्टोदयो द्विविधो नवोदय एकविधः; अत्र नपुंसकवेदो न लभ्यते, वैक्रियकाययोगिषु नपुंसकवेदिषु मध्ये सासादनस्यो 1 सं० सं० १सं० 2 त० °संख्योदय° // 2 सं० सं० 2 °षु गुण // 3 सं०१० २०म० °ति नवभि° // 4 करोति यद् न स कालम् / / 5 सं० सं० 2 छा० मुद्रि० अथ च // 6 सं० सं०१सं०२ त० म० ययो॥ 7 सं०१०म०°यमिश्रका //