________________ 46-47] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 215 ___ इह पदानि नाम-मिथ्यात्वम् अप्रत्याख्यानक्रोधः प्रत्याख्यानावरणक्रोध इत्येवमादीनि, ततो वृन्दानां-दशायुदयस्थानरूपाणां पदानि पदवृन्दानि, आर्षत्वाद् राजदन्तादिषु मध्ये पाठाभ्युपगमाद्वा वृन्दशब्दस्य परनिपातः, तेषां शतैः सप्तसप्तत्यधिकचतुरशीतिशतसयैः 8477 मोहिताः संसारिणो जीवा विज्ञेयाः, एतावत्सङ्ग्याभिः कर्मप्रकृतिभिर्यथायोगं मोहिता जीवा ज्ञातव्या इत्यर्थः / अथ कथं सप्तसप्तत्यधिकानि चतुरशीतिशतानि 8477 पदानां भवन्ति ? उच्यतेइह दशोदये दश पदानि दश प्रकृतय उदयमागता इत्यर्थः, एवं नवोदयादिष्वपि नवादीनि पदानि भावनीयानि / ततो दशोदय एको दशभिर्गुण्यते, नवोदयाः षड् नवमिः, अष्टोदया एकादश अष्टभिः, सप्तोदया एकादश सप्तभिः, षड्दया एकादश षड्भिः, पञ्चकोदया नव पञ्चभिः, चतुरुदयास्त्रयश्चतुर्भिः, गुणयित्वा चैते सर्वेऽप्येकत्र मील्यन्ते, जातानि द्विपञ्चाशदधिकानि त्रीणि शतानि 352 / एतानि च चतुर्विंशतिगतानि प्राप्यन्ते इति चतुर्विंशत्या गुण्यन्ते / ततो द्विकोदयपदानि चतुर्विंशतिः एकोदयपदानि च पञ्च प्रक्षिप्यन्ते ततस्तेषु प्रक्षिप्तेषु यथोक्तसक्यान्येव पदानां शतानि 8477 भवन्ति // सम्प्रति मिथ्यादृष्ट्यादिषु प्रत्येकमुदयमङ्गनिरूपणार्थ भाष्यकृदन्तर्गाथामाह-- अट्ठग चउ चउ चउरटुगा य चउरो य होंति चउवीसा / मिच्छाइ अपुव्वंता, बारस पणगं च अनियट्टे // 6 // मिथ्यादृष्ट्यादयोऽपूर्वकरणान्ता अष्टादिचतुर्विशतयो भवन्ति / किमुक्तं भवति ? —मिथ्यादृष्ट्यादिष्वपूर्वकरणपर्यवसानेषु गुणस्थानकेषु चतुर्विशतयो यथासङ्ख्यं अष्टादिसङ्ख्या भवन्ति / तत्र मिथ्यादृष्टावष्टौ, सासादने चतस्रः, मिश्रे चतस्रः / “चउरट्ठग" त्ति अविरतादिषु अप्रमत्तपर्यवसानेषु चतुर्पु गुणस्थानकेषु प्रत्येकमष्टावष्टौ / अपूर्वकरणे चतस्रः, एताश्च प्रागेव भाविताः / 'अनिवृत्तौ' अनिवृत्तिबादरे द्विकोदये द्वादश भनाः एकोदये च पञ्च / चशब्दोऽनिवृत्तिबादरे एकोदये चत्वार एकः सूक्ष्मसम्पराय इति विशेषं द्योतयति // 46 // सम्प्रत्येतेषामेवोदयभङ्गानामुदयपदानां च योगोपयोगादिमिर्गुणनार्थमुपदेशमाह जोगोवओगलेसाइएहिं गुणिया हवंति कायव्वा / जे जत्थ गुणहाणे, हवंति ते तत्थ गुणकारा // 47 // मिथ्यादृष्ट्यादिषु गुणस्थानकेषु ये योगोपयोगादयस्तैरुदयभङ्गा गुणिताः कर्त्तव्याः, तैरुदयभङ्गा गुणयितव्या इत्यर्थः / कतिसक्थैर्गुणयितव्याः ? इत्यत आह—ये योगादयो यस्मिन् गुणस्थानके यावन्तो भवन्ति तावन्तस्तस्मिन् गुणस्थानके गुणकाराः, तैस्तावद्भिस्तस्मिन् गुणस्थानके उदयभङ्गा गुणयितव्या इत्यर्थः। तत्र प्रथमतो योगैर्गुणनभावना क्रियते 1 सं०१ त० म० °दयोऽत्रैकः स दशौं / सं० 2 सं० छा० दयो दश° // 2 सं० 1 त. म० °थायोगं अ° // 3 सं० सं०२ छा० मुद्रि० "ट्ठाणेसु होंति ते त° //