________________ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं - [गाथा: प्रमाणं 'पूर्वोद्दिष्टेन' पूर्वोक्तेन प्राक् सामान्यनिर्दिष्टमोहनीयोदयस्थानचिन्ताधिकारोक्तेन प्रकारेण ज्ञातव्यम् // 45 // सम्प्रति मिथ्यादृष्ट्यादीनधिकृत्य दशादिष्वेकपर्यवसानेषु उदयस्थानेषु भङ्गसङ्ख्यानिरूपणार्थमाह एक छडेक्कारेकारसेव एक्कारसेव नव तिन्नि / एए चउवीसगया, बार दुगे पंच एकम्मि // 46 // इह दशादीनि चतुरन्तानि उदयस्थानान्यधिकृत्य यथासङ्ख्यमेकादिसङ्ख्यापदयोजना कर्तव्या। सा चैवम्-दशोदये एका चतुर्विंशतिः / नवोदये षट्-तत्र मिथ्यादृष्टौ तिस्रः, सासादने मिश्रेऽविरते च प्रत्येकमेकैका / अष्टोदये एकादश-तत्र मिथ्यादृष्टौ अविरते च प्रत्येक तिस्रः तिस्रः, सासादने मिश्रे च प्रत्येकं द्वे द्वे, देशविरते चैका / सप्तोदये एकादश-तत्र मिथ्यादृष्टौ सासादने मिश्रे प्रमत्तेऽप्रमत्ते च प्रत्येकमेकैका, अविरते देशविरते च प्रत्येकं तिसस्तिस्रः / षडुदये एकादश-तत्राविरतसम्यग्दृष्टौ अपूर्वकरणे च प्रत्येकमेकैका, देशविरते प्रमत्तेप्रमत्ते च प्रत्येकं तिस्रस्तिस्रः / पञ्चकोदये नव-तत्र देशविरते एका, प्रमत्तेऽप्रमत्ते च प्रत्येकं तिस्रस्तिस्रः, अपूर्वकरणे द्वे। चतुरुदये तिस्रः-प्रमत्तेऽप्रमत्तेऽपूर्वकरणे च प्रत्येकमेकैका। 'एते' अनन्तरोक्ता एकादिकाः सङ्ग्याविशेषाः 'चतुर्विंशतिगताः' चतुर्विशत्यभिधायकाः, एता अनन्तरोक्ताश्चतुर्विशतयो ज्ञातव्या इत्यर्थः / एताश्च सर्वसङ्ख्यया द्विपञ्चाशत् 52 / 'द्विके' द्विकोदये भङ्गा द्वादश, एकोदये पञ्च, एते च प्रागेव भाविताः // सम्प्रत्येतेषामेव भङ्गानां विशिष्टतरसङ्ग्यानिरूपणार्थमाह बारसपणसट्ठसया, उदयविगप्पेहिं मोहिया जीवा / . इह दशादिषु चतुःपर्यवसानेषु उदयस्थानेषु भङ्गकानां द्विपञ्चाशत् चतुर्विशतयो लब्धाः / ततो द्विपञ्चाशत् चतुर्विशत्या गुण्यते, गुणितायां च सत्यां द्विकोदयभङ्गा द्वादश एकोदयभङ्गाः पञ्च प्रक्षिप्यन्ते, ततो द्वादश शतानि पञ्चषष्ट्यधिकानि 1265 भवन्ति / एतैरुदयविकल्पैर्यथायोगं सर्वे संसारिणो जीवाः 'मोहिताः' मोहमापादिता विज्ञेयाः // सम्प्रति पदसङ्ख्यानिरूपणार्थमाह चुलसीईसत्तत्तरिपयविंदसएहिं विनेया // 5 // 1 मुद्रि० °मान्येनोक्तमोह' / छा० मान्योक्तमोह // 2 "एएसिं उदयविगप्पपयवंदनिरूवणत्थमन्तर्भाष्यगाथा-बारसपणसट्ठसया०" इत्यनेन सप्ततिकाचर्णिगतावतरणेन गाथेयं चूर्णिकृताऽन्तर्भाष्यगाथातयोपात्ताऽपि टीकाकारैर्नान्तर्भाष्यगाथात्वेनोक्लिखिता, तथाप्यस्माभिश्थूर्णिमनुसृत्यान्तर्भाष्यगाथात्वेनोपस्थापितयं गाथा // _3 सं० सं० 1 सं० 2 °सर्वसं° // 4 सं० 1 °सीइसत्तसत्त' / म० °सीइसत्तहत्त° // 5 सं० सं० 2 °यवंद //