________________ 210 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः सम्प्रत्यायुभङ्गा निरूप्यन्ते, तन्निरूपणार्थं चेयमन्तर्भाष्यगाथा अट्टेच्छाहिगवीसा, सोलस वीसं च बार छ होसु / दो चउसु तीसु एकं, मिच्छाइसु आउगे भंगा // 4 // मिथ्यादृष्ट्यादिषु गुणस्थानकेषु अयोगिकेवलिगुणस्थानकपर्यन्तेषु क्रमेणैतेऽष्टाधिकविंशत्यादय आयुषि भङ्गाः / तत्र मिथ्यादृष्टिगुणस्थानकेऽष्टाधिका विंशतिरायुषो भङ्गाः / मिथ्यादृष्टयो हि चतुर्गतिका अपि भवन्ति / तत्र नैरयिकानधिकृत्य पञ्च, तिरश्चोऽधिकृत्य नव, मनुष्यानप्यविकृत्य नव, देवानधिकृत्य पञ्च, एते च प्रागेव सप्रपञ्चं भाविता इति न भूयो भाव्यन्ते / सासादनस्य षडधिका विंशतिः, यतस्तिर्यञ्चो मनुष्या वा सासादनभावे वर्तमाना नरकायुर्न बनन्ति, ततः प्रत्येकं तिरश्चां मनुष्याणां च परभवायुर्वन्धकाले एकैको भङ्गो न प्राप्यत इति पदिशतिः / सम्यग्मिथ्यादृष्टेः षोडश, सम्यग्मिथ्यादृष्टयो हि नायुर्वन्धमारभन्ते, तत आयुबन्धकाले नारकाणां यौ द्वौ भङ्गौ, ये च तिरश्चां चत्वारः, ये च मनुष्याणामपि चत्वारः, यौ च देवानां द्वौ, तानेतान् द्वादश वर्जयित्वा शेषाः षोडश भवन्ति / अविरतसम्यग्दृष्टेविंशतिभङ्गाः, कथम् ? इति चेद् उच्यते-तिर्यङ्-मनुष्याणां प्रत्येकमायुर्बन्धकाले ये नरक-तिर्यङ्-' मनुष्यगतिविषयास्त्रयस्त्रयो भङ्गाः, यश्च देव-नैरयिकाणां प्रत्येकमायुर्बन्धकाले तिर्यग्गतिविषय एकैको भङ्गः, ते अविरतसम्यग्दृष्टेर्न सम्भवन्ति, ततः शेषा विंशतिरेव भवति / देशविरतेादश भङ्गाः, यतो देशविरतिस्तिर्यङ्-मनुष्याणामेव भवति, ते च तिर्यङ्-मनुष्या देशविरता आयुर्वघ्नन्तो देवायुरेव बध्नन्ति, न शेषमायुः, ततस्तिरश्चां मनुष्याणां च प्रत्येकं परभवायुर्बन्धकालात् पूर्वमेकैको भङ्गः, परभवायुर्वन्धकालेऽपि चैकैकः; आयुर्बन्धोत्तरकालं च चत्वारश्चत्वारः, यतः केचित् तिर्यञ्चो मनुष्याश्च चतुर्णीमेकमन्यतमदायुर्बद्धा देशविरति प्रतिपद्यन्ते, ततस्तदपेक्षया यथोक्ताश्चत्वारश्चत्वारो भङ्गाः प्राप्यन्ते, सर्वसङ्ख्यया द्वादश / “छ दोसु" ति 'द्वयोः' प्रमत्ता-ऽप्रमत्तयोः प्रत्येकं षट् षड् भङ्गाः / प्रमत्ता-अमत्तसंयता हि मनुष्या एव भवन्ति, तत आयुर्बन्धकालात् पूर्वमेकः, आयुर्बन्धकालेऽप्येकः, प्रमत्ता-अमत्ता हि देवायुरेवैकं बध्नन्ति न शेषमायुः, बन्धोत्तरकालं च प्रागुक्तदेशविरैत्युक्त्यनुसारेण चत्वार इति / "दो चउसु" त्ति 'चतुर्यु' अपूर्वकरणा-ऽनिवृत्तिबादर-सूक्ष्मसम्पराय-उपशान्तमोहरूपेषु गुणस्थानकेपशमश्रेणिमधिकृत्य प्रत्येकं द्वौ द्वौ भङ्गौ, तद्यथा—मनुष्यायुष उदयो मनुष्यायुषः सत्ता, एष विकल्पः परभवायुर्बन्धकालात् पूर्वम् ; अथवा मनुष्यायुष उदयो मनुष्य-देवायुषी सती, एष विकल्पः परभवायुर्बन्धोत्तरकालम् ; एते ह्यायुर्न बध्नन्ति, अतिविशुद्धत्वात् / पूर्वबद्धे चायुषि उपशमश्रेणि प्रतिपद्यन्ते देवायुष्येव नान्यायुषि / तदुक्तं कर्मप्रकृती तिसु आउगेसु बद्धेसु जेण सेढिं न आरुहइ // ( गा० 375) तत उपशमश्रेणिमधिकृत्य एतेषु द्वौ द्वावेव भङ्गौ / पूर्वबद्धायुष्कास्तु क्षपकश्रेणिं न प्रतिपद्यन्ते, 1 गाथेयं सप्ततिकाभाष्ये त्रयोदशतमी // 2 मुद्रि० रस छ दोसु // 3 सं० 1 त० म० •णामन्य° // 4 सं० 1 म० त० रतियुक्त्यनु // 5 त्रिष्वायुष्केषु बद्धेषु येन श्रेणिं न आरोहति //