________________ 41-45] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 211 तत उपशमश्रेणिमधिकृत्येत्युक्तम् / क्षपकश्रेण्यां त्वेतेषामेकैक एव भङ्गः, तद्यथा-मनुष्यायुष उदयो मनुष्यायुषः सत्तेति / “तीसु एकं" ति 'त्रिषु' क्षीणमोह-सयोगिकेवलि-अयोगिरूपेषु प्रत्येकमेकैको भङ्गः, तद्यथा-मनुष्यायुष उदयो मनुष्यायुषः सत्ता / शेषा न सम्भवन्ति / तदेवमायुषो गुणस्थानकेषु भङ्गा निरूपिताः, सम्प्रति मोहनीयं प्रत्याह मोहं परं वोच्छं // 41 // अतः परं 'मोह' मोहनीयं वक्ष्ये // 41 // गुणठाणगेसु अहसु, एककं मोहबंधठाणेसु। पंचानियहिठाणे, बंधोवरमो परं तत्तो // 42 // मोहनीयसत्कबन्धस्थानेषु मध्ये एकैकं बन्धस्थानं मिथ्यादृष्ट्यादिषु अष्टसु गुणस्थानकेषु भवति, तद्यथा-मिथ्यादृष्टाविंशतिः सासादनस्यैकविंशतिः सम्यग्मिथ्यादृष्टेरविरतसम्यग्दृष्टेश्च प्रत्येकं सप्तदश सप्तदश, देशविरतस्य त्रयोदश, प्रमत्ता-अमत्ता- पूर्वकरणानां प्रत्येकं नव नव / एतानि च द्वाविंशत्यादीनि नवपर्यन्तानि बन्धस्थानानि प्रागेव सप्रपञ्चं भावितानीति न भूयो भाव्यन्ते, विशेषाभावात् / केवलमप्रमत्ता- पूर्वकरणयोर्भङ्ग एकैक एव वक्तव्यः, अरति-शोकयोर्बन्धस्य प्रमत्तगुणस्थानके एव व्यवच्छेदात् / प्राक् च प्रमत्तापेक्षया नवकबन्धस्थाने द्वौ भनौ दर्शितौ / “पंचानियट्टिठाणे” अनिवृत्तिबादरसम्परायगुणस्थानके पञ्च बन्धस्थानानि, तद्यथापञ्च चतस्रः तिस्रः द्वे एका च प्रकृतिरिति / 'ततः' अनिवृत्तिस्थानात् परं सूक्ष्मसम्परायादौ 'बन्धोपरमः' बन्धाभावः // 12 // सम्प्रत्युदयस्थानप्ररूपणार्थमाहसत्ताइ दस उ मिच्छे, सासायणमीसए नवुक्कोसा। छाई नव उ अविरए, देसे पंचाइ अटेव // 43 // विरए खओवसमिए, चउराई सत्त छच्चपुवम्मि / अनियहिबायरे पुण, इक्को व दुवे व उदयंसा // 44 // एगं सुहमसरागो, वेएइ अवेयगा भवे सेसा। भंगाणं च पमाणं, पुवुद्दिट्टेण नायव्वं // 45 // मिथ्यादृष्टेः सप्तादीनि दशपर्यन्तानि चत्वार्युदयस्थानानि भवन्ति, तद्यथा-सप्त अष्टौ नव दश / तत्र मिथ्यात्वम् , अप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनक्रोधादीनामन्यतमे त्रयः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, हास्य-रति-युगला-ऽरति-शोक-युगलयोरन्यतरद् युगलमित्येतासां सप्तप्रकृतीनामुदयो ध्रुवः; अत्र चतुर्भिः कषायैस्त्रिभिदैाभ्यां युगलाभ्यां भङ्गा 1 सं० 1 त० म० °योगिकेवलिरू° // 2 सं० 1 त० म० छा० प्रागुक्तप्रम // .