________________ चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / तत्र वेदनीय-गोत्रयोर्भङ्गनिरूपणार्थमियमन्तर्भाष्यगाथा चउ छस्सु दोण्णि सत्तसु, एगे चउ गुणिसु वेयणियभंगा / गोए पण चउ दो तिसु, एगऽटुसु दोण्णि एक्कम्मि // 3 // मिथ्यादृष्ट्यादिषु प्रमत्तसंयतपर्यन्तेषु षट्सु गुणस्थानकेषु प्रत्येकं वेदनीयस्य प्रथमाश्चत्वारो भनाः, ते चेमे-असातस्य बन्धः असातस्योदयः सातासाते सती, असातस्य बन्धः सातस्योदमः सातासाते सती, सातस्य बन्धः असातस्योदयः सातासाते सती, सातस्य बन्धः सातस्योदयः सातासाते सती / तथाऽप्रमत्तसंयतादिषु सयोगिकेवलिपर्यन्तेषु सप्तसु गुणस्थानकेषु द्वौ भगौ, तौ चानन्तरोक्तावेव तृतीयचतुर्थी ज्ञातव्यौ, एते हि सातमेव बध्नन्ति नासातम् / तथा 'एकस्मिन्' अयोगिकेवलिनि चत्वारो भङ्गाः, ते चेमे--असातस्योदयः सातासाते सती, अथवा सातस्योदयः सातासाते सती, एतौ द्वौ विकल्पावयोगिकेवलिनि द्विचरमसमयं यावत् प्राप्येते; चरमसमये तु असातस्योदयः असातस्य सत्ता यस्य द्विचरमसमये सातं क्षीणम् , यस्य त्वसातं द्विचरमसमये क्षीणं तस्यायं विकल्पः-सातस्योदयः सातस्य सत्ता / “गोए" इत्यादि / 'गोत्रे' गोत्रस्य पञ्च भङ्गा मिथ्यादृष्टौ, ते चेमे-नीचैर्गोत्रस्य बन्धः नीथैर्गोत्रस्योदयः नीचैर्गोत्रं सत् , एष विकल्पस्तेजस्कायिक-वायुकायिकेषु लभ्यते, तद्भवादुद्वृत्तेषु वा शेषजीवेषु कियत्कालम् / नीचैर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदयः उच्च-नीचैर्गोत्रे सती, अथवा नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्च-नीच्चैर्गोत्रे सती, अथवा उच्चैर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती, उच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती; सासादनस्य प्रथमवर्जाः शेषाश्चत्वारो भङ्गाः / प्रथमो हि भनस्तेजः-वायुकायिकेषु लभ्यते, तद्भवादुद्वृत्तेषु वा कियत्कालम् / न च तेजः-वायुषु सासादनभावो लभ्यते, नापि तद्भवादुद्भुतेषु तत्कालम् , अतोऽत्र प्रथमभङ्गप्रतिषेधः / तथा 'त्रिषु' मिश्रा-ऽविरत-देशविरतेषु चतुर्थ-पञ्चमरूपौ द्वौ भनौ भवतः, न शेषाः, मिश्रादयो हि नीचैर्गोत्रं न बनन्ति / अन्ये त्वाचार्या ब्रुवते-देशविरतस्य पञ्चम एवैको भङ्गः, "सामन्नेणं वयजाईए उच्चागोयस्स उदओ होइ" // ( ) इति वचनात् / / ___“एगऽट्टसु” त्ति प्रमत्तसंयतप्रभृतिषु अष्टसु गुणस्थानेषु प्रत्येकमेकैको भङ्गः / तत्र प्रमत्ता-ऽप्रमत्ता-ऽपूर्वकरणा-ऽनिवृत्तिबादर-सूक्ष्मसम्परायेषु केवल: पञ्चमो भङ्गः, तेषामुच्चैर्गोत्रस्यैव बन्ध-उदयसम्भवात् / उपशान्तमोहे क्षीणमोहे सयोगिकेवलिनि च बन्धाभावात् प्रत्येकमयं विकल्पः-उच्चैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती / / __ "दोन्नि एक्कम्मि" ति एकस्मिन् अयोगिकेवलिनि द्वौ भङ्गौ-उच्चैर्गोत्रस्योदय उच्चनीचैर्गोत्रे सती, एप विकल्पो द्विचरमसमयं यावत् / चरमसमये त्वेष विकल्पः--उच्चैर्गोत्रस्योदयः उच्चैर्गोत्रं सत् / नीचैर्गोत्रं हि द्विचरमसमये एव क्षीणमिति चरमसमये न सत् प्राप्यते // * 1 सामान्येन व्रत-जात्योः उच्चगोत्रस्य उदयो भवति // 2 सं० त०म० जाइ पडुच उ // 27