________________ 26-28] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 187 एवाष्टौ भनाः / सर्वसङ्ख्यया एकोनविंशति षोडश भङ्गाः / ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वस्सहितायामेकोनत्रिंशति उद्योते क्षिप्ते त्रिंशद् भवति, अत्रापि त एवाष्टौ भङ्गाः, सर्वसमया देवानां चतुःषष्टिर्भकाः 64 / नैरयिकाणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् / तत्र नरकगतिः नरकानुपूर्वी पञ्चेन्द्रियजातिः त्रसनाम बादरनाम पर्यासकनाम दुर्भगनाम अनादेयम्. अयशःकीर्तिरित्येता नव प्रकृतयो द्वादशसङ्ख्याभिर्बुवोदयाभिः सहैकविंशतिः, अत्र सर्वाण्यपि पदानि अप्रशस्तान्येवेति एक एव भङ्गः / ततः शरीरस्थस्य वैक्रियं वैक्रियाङ्गोपाङ्गं हुण्डसंस्थानम् उपघातं प्रत्येकमिति पञ्च प्रकृतयः प्रक्षिप्यन्ते नरकानुपूर्वी चापनीयते ततः पञ्चविंशतिर्भवति, अत्राप्येक एव भङ्गः / ततः शरीरपर्याप्स्या पर्याप्तस्य पराघाता-ऽप्रशस्तविहायोगत्योः प्रक्षिप्तयोः सप्तविंशतिः, अत्राप्येक एव भङ्गः / ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छृासे क्षिप्तेऽष्टाविंशतिः, अत्राप्येक एव भङ्गः / ततो भाषापर्याप्त्या पर्यातस्य दुःस्वरे क्षिप्ते एकोनत्रिंशत् , अत्राप्येक एव भङ्गः / सर्वसङ्ख्यया नैरयिकाणां पञ्च भङ्गाः / सकलोदयस्थानभङ्गाः पुनः सप्तसप्ततिशतानि एकनवत्यधिकानि 7791 // 26 // सम्प्रति कस्मिन्नुदयस्थाने कति भङ्गाः प्राप्यन्ते ? इति चिन्तायां तन्निरूपणार्थमाह ऐग बियालेकारस, तेत्तीसा छस्सयाणि तेत्तीसा। बारससत्तरससयाणहिगाणि बिपंचसीईहिं // 27 // अउणत्तीसेकारससयाहिगा सतरसपंचसट्ठीहिं। इकेकगं च वीसादडुदयंतेसु उदयविही // 28 // विंशत्यादिष्वष्टपर्यन्तेषु द्वादशसूदयस्थानेषु यथासङ्ख्यमेकादिसङ्ख्याः 'उदयविधयः' उदयप्रकारा उदयभङ्गा इत्यर्थः / तत्र विंशतावेको भङ्गः, स चातीर्थकरकेवलिनोऽवसेयः / एकविंशतौ द्विचत्वारिंशत्-तत्रैकेन्द्रियानधिकृत्य पञ्च, विकलेन्द्रियानधिकृत्य नव, तिर्यक्पञ्चेन्द्रियानधिकृत्य नव, मनुष्यानप्यधिकृत्य नव, तीर्थकरमधिकृत्यैकः, सुरानधिकृत्याष्टौ, नैरयिकानधिकृत्यैक इति द्विचत्वारिंशत् 42 / चतुर्विशतावेकादश, ते चैकेन्द्रियानेवाधिकृत्य प्राप्यन्ते, अन्यत्र चतुर्विशत्युदयस्थानस्याप्राप्यमाणत्वात् / पञ्चविंशतौ त्रयस्त्रिंशत्-तत्रैकेन्द्रियानधिकृत्य सप्त, वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्याष्टी, वैक्रियमनुष्यानप्यधिकृत्याष्टो, आहारकसंयतानाश्रित्यैकः, देवानप्यधिकृत्याष्टौ, नैरयिकानधिकृत्यैक इति त्रयस्त्रिंशत् 33 / षड्विंशतौ षट् शतानि ६००-तत्रैकेन्द्रियानाश्रित्य त्रयोदश, विकलेन्द्रियानधिकृत्य नव, प्राकृततिर्यक्पञ्चेन्द्रियानधिकृत्य द्वे शते एकोननवत्यधिके 289, प्राकृतमनुष्यानप्यधिकृत्य द्वे शते एकोननवत्यधिके 289 इति षट् शतानि 600 / सप्तविंशतौ त्रयस्त्रिंशत्-तत्रैकेन्द्रियानाश्रित्य षद्, 1 छा० मुद्रि० 'न्येवेति कृत्वा एक ए° // 2 सं० मुद्रि० °रपर्याप्त्या पर्याप्तस्य वैकि' / / 3 माथेमे सततिकाभाष्ये द्वाविंशति त्रयोविंशत्यधिकैकशततम्यौ / / 4 त० म० °करान° //