________________ 188 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथा: वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्याष्टौ, वैक्रियमनुष्यानधिकृत्याष्टौ, आहारकसंयतानधिकृत्यैकः, केवलिनमधिकृत्यैकः, देवानधिकृत्याष्टी, नैरयिकानधिकृत्यैक इति त्रयस्त्रिंशत् 33 // अष्टाविंशतौ द्य- . धिकानि द्वादश शतानि १२०२-तत्र विकलेन्द्रियानधिकृत्य षट्, प्राकृततिर्यक्पञ्चेन्द्रियानथिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि 576, वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्य षोडश, मनुष्यानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि 576, वैक्रियमनुष्यानधिकृत्य नव, आहारकसंयतानधिकृत्य द्वौ, देवानधिकृत्य षोडश, नारकानधिकृत्यैक इति / एकोनत्रिंशति पञ्चाशीत्यधिकानि सप्तदश शतानि १७८५-तत्र विकलेन्द्रियानधिकृत्य द्वादश, तिर्यक्पञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकान्येकादश शतानि 1152, वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्य षोडश, मनुष्यानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि 576, वैक्रियमनुष्यानधिकृत्य नव, आहारकसंयतानधिकृत्य द्वौ, तीर्थकरमधिकृत्यैकः, देवानधिकृत्य षोडश, नारकानधिकृत्यैक इति। त्रिंशति एकोनत्रिंशच्छतानि सप्तदशाधिकानि २९१७-तत्र विकलेन्द्रियानधिकृत्याष्टादश, तिर्यक्पञ्चेन्द्रियानधिकृत्य सप्तदश शतान्यष्टाविंशत्यधिकानि 1728, वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्याष्टी, मनुष्यानधिकृत्य द्विपश्चाशदधिकान्येकादश शतानि 1152, वैक्रियमनुष्यानधिकृत्यैकः, आहारकसंयतानधिकृत्यैकः, केवलिनमधिकृत्यैकः, देवानधिकृत्याष्टौ / एकत्रिंशत्येकादश शतानि पञ्चषष्ट्यधिकानि ११६५-तत्र विकलेन्द्रियानधिकृत्य द्वादश, तिर्यक्पञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकान्येकादश शतानि 1152, तीर्थकरमधिकृत्यैकः / एको नवोदये। एकोऽष्टोदये / सर्वोदयस्थानेषु सर्वसङ्ख्यया भङ्गाः सप्तसप्ततिशतान्येकनवत्यधिकानि 7791 इति // 27-28 // तदेवमुक्तानि सप्रमेदान्युदयस्थानानि / सम्प्रति सत्तास्थानप्ररूपणार्थमाह तिदुनउई उगुनउई, अट्ठच्छलसी असीइ उगुसीई / अहयछप्पणत्तरि, नव अट्ट य नामसंताणि // 29 // नाम्नः नामकर्मणो द्वादश सत्तास्थानानि, तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिः अशीतिः एकोनाशीतिः अष्टसप्ततिः षट्सप्ततिः पञ्चसप्ततिः नव अष्टाविति / तत्र सर्वप्रकृतिसमुदायस्त्रिनवतिः / सैव तीर्थकररहिता द्विनवतिः / त्रिनवतिरेवाहारकशरीराऽऽहारकाङ्गोपाङ्गा-ऽऽहारकसङ्घाता-ऽऽहारकबन्धनरूपचतुष्टयेन रहिता एकोननवतिः। सैव तीर्थकररहिता अष्टाशीतिः / ततो नरकगति-नरकानुपूर्दोरथवा देवगति-देवानुपूयॊरुद्वलितयोः षडशीतिः; अथवा अशीतिसत्कर्मणो नरकगतिप्रायोग्यं बध्नतो नरकगति-नरकानुपूर्वी वैक्रियशरीरवैक्रियाङ्गोपाङ्ग-वैक्रियसङ्घात-वैक्रियबन्धनबन्धे षडशीतिः; अथवाऽशीतिसत्कर्मणो देवगतिप्रायोग्य बनतो देवगति-देवानुपूर्वी-वैक्रियचतुष्टयबन्धे षडशीतिः / ततो नरकगति-नरकानुपूर्वी-वैक्रियचतुष्टयोदलने अथवा देवगति-देवानुपूर्वी-वैक्रियचतुष्टयोद्बलने कृते अशीतिः। ततो मनुजगतिमनुजानुपूर्योरुद्वलितयोरष्टसप्ततिः / एतान्यक्षपकाणां सत्तास्थानानि / क्षपकाणां पुनरमूनित्रिनवतेः नरकगति-नरकानुपूर्वी-तिर्यग्गति-तिर्यगानुपूर्वी-एकेन्द्रियजाति-द्वीन्द्रियजाति-त्रीन्द्रियनाति-चतुरिन्द्रियजाति-स्थावरा-ऽऽतप-उद्योत-सूक्ष्म-साधारणरूपे त्रयोदशके क्षीणे अशीतिर्भवति,