________________ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः गन्तव्या, अत्र संस्थानषट्क-प्रशस्ता-ऽप्रशस्तविहायोगति-सुस्वर-दुःस्वरैश्चतुर्विंशतिभङ्गाः, ते च सामान्यमनुष्योदयस्थानेष्वपि प्राप्यन्ते इति न पृथग् गण्यन्ते / एष त्रिंशत् तीर्थकरनामसहिता एकत्रिंशद् भवति, सा च सयोगिकेवलिनस्तीर्थकरस्यौदारिककाययोगे वर्तमानस्यावसेया / एषैव एकत्रिंशद् वाग्योगे निरुद्धे त्रिंशद् भवति, उच्छासेऽपि च निरुद्धे एकोनप्रिंशत् / अतीर्थकरकेवलिनः प्रागुक्ता त्रिंशद् वाग्योगे निरुद्धे सत्येकोनत्रिंशद् भवति, अत्रापि षड्भिः संस्थानः विहायोगतिद्विकेनं च द्वादश भङ्गाः प्राप्यन्ते, ते च प्रागिव न पृथग् गण्यन्ते / तत उच्छ्वासे निरुद्धेऽष्टाविंशतिः, अत्रापि संस्थानादिगताः द्वादश मना न पृथग् गणयितव्याः, सामान्यमनुष्योदयस्थानग्रहणेन गृहीतत्वात् / तथा मनुष्यगतिः पञ्चेन्द्रियजातिः प्रसनाम बादरनाम पर्याप्तकनाम सुभगम् आदेयं यशःकीर्तिः तीर्थकरमिति नवोदयः, एष च तीर्थकृतोऽयोमिकेवलिनश्चरमसमये वर्तमानस्य प्राप्यते / स एवातीर्थकरस्य तीर्थकरनामरहितोऽष्टोदयः / इह केवल्युदयस्थानमध्ये विंशति-एकविंशति-सप्तविंशति-एकोनत्रिंशत्-त्रिंशद्-एकत्रिंशद्-नवाऽष्टरूपेष्वष्टसूदयस्थानेषु प्रत्येकमेकैको विशेषभङ्गः प्राप्यते इत्यष्टौ भङ्गाः / तत्र विंशत्यष्टकयोर्भङ्गावतीर्थकृतः शेषेषु षट्सु उदयस्थानेषु तीर्थकृतः षड् भङ्गाः, सर्वसङ्ख्यया मनुष्याणामुदयस्थानेषु षड्विंशतिशतानि द्विपञ्चाशदधिकानि 2652 / / देवानामुदयस्थानानि षट्, तद्यथा-एकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / तत्र देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः त्रसनाम बादरनाम पर्याप्तकं सुभग-दुर्भगयोरेकतरम् आदेया-ऽनादेययोरेकतरं यशःकीर्ति-अयशःकीयो रेकतरा इति नव प्रकृर्तयो द्वादशसङ्ख्याभिर्बुवोदयाभिः सह एकविंशतिः, अत्र सुभग-दुर्भगा-ऽऽदेवा-ऽनादेययश कीर्ति-अयशःकीर्तिपदैरष्टौ भङ्गाः / दुर्भगाऽनादेया-ऽयशःकीर्तिनामुदयः पिशाचादीनायवगन्तव्यः / ततः शरीरस्थस्य वैक्रियं वैक्रियाङ्गोपाङ्गम् उपघातं प्रत्येकं समचतुरससंस्थानमित्ति पञ्च प्रकृतयः प्रक्षिप्यन्ते देवानुपूर्वी चापनीयते ततो जाता पञ्चविंशतिः, अत्रापि त एवाष्टौ भङ्गाः / ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां सप्तविंशतिः, अत्रापि त एवाष्टौ भङ्गाः, देवानामप्रशस्तविहायोगतेरुदयाभावात् तदाश्रिता विकल्पा न भवन्ति / ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्रासे क्षिप्तेऽष्टाविंशतिः, अत्रापि त एवाष्टौ भङ्गाः; अथवा शरीरपर्याप्त्या पर्याप्तस्य उच्छ्रासेऽनुदिते उद्योतनाम्नि तूदितेऽष्टाविंशतिः, अत्रापि प्रागिवाष्टौ भङ्गाः, सर्वसङ्ख्यया अष्टाविंशतौ भङ्गाः षोडश / ततो भाषापर्यास्या पर्याप्तस्य सुस्वरे क्षिप्ते एकोनत्रिंशद् भवति, अत्राप्यष्टौ भङ्गाः, दुःखरोदयो देवानां न भवतीति कृत्वा तदाश्रिता विकल्पा न भवन्ति; अथवा प्राणापानपर्याप्त्या पर्याप्तस्य सुखरेऽनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशद् भवति, उत्तरवैक्रियं हि कुर्वतो देवस्योद्योतोदयो लभ्यते, अत्रापि त 1 सं० 1 त० °ध्वपि इ° // 2 सं० 1 त० शद् भवति / अ° // 3 छा० म० मुद्रि० स्थानैः षड् भन्नाः प्राप्यन्ते वि // 4 छा० म० °न च द्वादश / ते च प्रागि° // 5 छा० म० मुद्रि० स्थानगताः षड् भ° // 6 सं० 1 त० म० °यो ध्रुवोदयाभिर्द्वादशसंख्याभिः //