________________ 160 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः तदुक्तम् देवा नारगा वा देवेसु नारगेसु वि न उववज्जति / ( ) इति / ततो नारकाणां परभवायुर्बन्धकाले बन्धोत्तरकाले च देनायुः नारकायुा विकल्पाभावात् सर्वसङ्ख्यया पञ्चैव विकल्पा भवन्ति / ___ एवं देवानामपि पैञ्च विकल्पा भावनीयाः / नवरं नारकायुःस्थाने देवायुरिति वक्तव्यम् , तद्यथा-देवायुष उदयो देवायुषः सत्ता इत्यादि / तथा तिर्यगायुष उदयस्तिर्यगायुषः सत्ता, एष विकल्प आयेषु पञ्चसु गुणस्थानकेषु, शेषगुणस्थानकस्य तिर्यक्ष्वसम्भवात् , एष विकल्पः परभवायुर्बन्धकालात् पूर्वम् / बन्धकाले तु नारकायुषो बन्धः तिर्यगायुष उदयो नारक-तिर्यगायुषी सती, एष विकल्पो मिथ्यादृष्टेः, अन्यत्र नारकायुषो बन्धाभावात् ; अथवा तिर्यगायुषो बन्धः; तिर्यगायुष उदयः; तिर्यक्-तिर्यगायुषी सती, एष विकल्पो मिथ्यादृष्टेः सासादनस्य वा; अथवा मनुष्यायुषो बन्धः, तिर्यगायुष उदयो मनुष्य-तिर्यगायुषी सती, एष विकल्पो मिथ्यादृष्टेः सासादनस्य वा नान्यस्य, तिरश्चोऽविरतसम्यग्दृष्टेर्देशविरतस्य वा देवायुष एव बन्धसम्भवात् ; अथवा देवायुषो बन्धः, तिर्यगायुष उदयो देव-तिर्यगायुषी सती, एष विकल्पो मिथ्यादृष्टेः सासादनस्याविरतसम्यग्दृष्टेदेशविरतस्य वा, न सम्यग्मिथ्यादृष्टेः, तस्यायुबन्धाभावात् / एते चत्वारो विकल्पाः परभवायुबन्धकाले / बन्धे तु व्यवच्छिन्ने तिर्यगायुष उदयो नारक-तिर्यगायुषी सती, एष विकल्प आयेषु पञ्चसु गुणस्थानकेषु, नारकायुर्बन्धानन्तरं सम्यक्त्वादावपि गमनसम्भवात् , अथवा तिर्यगायुष उदयस्तिर्यक्-तिर्यगायुषी सती, अथवा तिर्यगायुष उदयो मनुष्य-तिर्यगायुषी सती, अथवा तिर्यगायुष उदयो देव-तिर्यगायुषी सती, एतेऽपि त्रयो विकल्पा आयेषु पञ्चसु गुणस्थानकेषु / सर्वसञ्जयया तिरश्चां नव विकल्पाः, चतसृष्वपि गतिषु तिरश्चामुत्पादसम्भवात् / तथा मनुष्यायुष उदयो मनुष्यायुषः सत्ता, एष विकल्पोऽयोगिकेवलिनं यावत् / तथा नारकायुषो बन्धो मनुष्यायुष उदयो नारक-मनुष्यायुषी सती, एष विकल्पो मिथ्यादृष्टेः। तथा तिर्यगायुषो बन्धो मनुष्यायुष उदयस्तिर्यङ्-मनुष्यायुषी सती, एष विकल्पो मिथ्यादृष्टेः सासादनस्य वा / मनुप्यायुषो बन्धो मनुष्यायुष उदयो मनुष्य-मनुष्यायुषी सती, एषोऽपि विकल्पो मिथ्यादृष्टेः सासादनस्य वा / देवायुषो बन्धो मनुष्यायुष उदयो देव-मनुष्यायुषी सती, एष विकल्पोऽप्रमत्तगुणस्थानकं यावत् / एते चत्वारो विकल्पाः परभवायुर्बन्धकाले / बन्धे तु व्यवच्छिन्ने मनुष्यायुष उदयो नारक-मनुष्यायुषी सती, एष विकल्पोऽप्रमत्तगुणस्थानकं यावत्, नारकायुबन्धानन्तरं संयमप्रतिपत्तेरपि सम्भवात् / मनुष्यायुष उदयस्तिर्यङ्-मनुष्यायुषी सती, एषोऽपि विकल्पोऽप्र 1 देवा नारका वा देवेषु नारकेष्वपि नोपपद्यन्ते // 2 सं० 1 त० म० पञ्चैव वि. // 3 सं० त० °यः, तिर्यगा° // 4 स० त० म० °वत् / बन्धकाले तु नार° / सं० °वत् / नार // 5 स०१ सं० त० म० 'दृष्टेः / तिर्यगा° // 6 सं० 1 त० म० °कल्पो मिश्रवर्जमप्र. //