________________ 159 चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / सम्प्रति वेदनीया-ऽऽयुः गोत्रेषु संवेधविकल्पोपदर्शनार्थमाह वेयणियाउयगोए, विभज - वेदनीये आयुषि गोत्रे च यथागमं बन्धादिस्थानानि संवेधमाश्रित्य 'विभजेत्' विकल्पयेत् / तत्र वेदनीयस्य सामान्येनैकं बन्धस्थानम् , तद्यथा-सातमसातं वा, द्वयोः परस्परविरुद्धत्वेन युगपढून्धाभावात् / उदयस्थानमपि एकम् , तद्यथा-सातमसातं वा, द्वयोर्युगपदुदयाभावात् परस्परविरुद्धत्वात् / सत्तास्थाने द्वे, तद्यथा-वे एकं च / तत्र यावदेकमन्यतरद् न क्षीयते तावद् द्वे अपि सती, अन्यतरस्मिंश्च क्षीणे एकमिति / सम्प्रति संवेध उच्यते-असातस्य बन्धः असातस्य उदयः साता-ऽसाते सती, अथवा असातस्य बन्धः सातस्य उदयः साता-ऽसाते सती; एतौ द्वौ विकल्पौ मिथ्यादृष्टिगुणस्थानकात् . प्रभृति प्रमत्तगुणस्थानकं यावत् प्राप्येते न परतः, परतोऽसातस्य बन्धाभावात् / तथा सातस्य बन्धः सातस्योदयः साता-ऽसाते सती, अथवा सातस्य बन्धः असातस्योदयः साता-ऽसाते सती; एतौ द्वौ विकल्पौ मिथ्यादृष्टिगुणस्थानकादारभ्य सयोगिकेवलिगुणस्थानकं यावत् सम्भवतः। ततः परतो बन्धाभावे असातस्योदयः साता-ऽसाते सती, अथवा सातस्योदयः साता-5साते सती; एतौ द्वौ विकल्पौ अयोगिकेवलिनि द्विचरमसमयं यावत् प्राप्येते / चरमसमये तु असातस्योदयः असातस्य सत्ता यस्य द्विचरसमये सातं क्षीणम् , यस्य त्वसातं द्विचरमसमये क्षीणं तस्यायं विकल्पः-सातस्योदयः सातस्य सत्ता; एतौ च द्वौ विकल्पावेकसामयिकौ। सर्वसङ्ख्यया च वेदनीयस्याष्टौ भङ्गाः॥ तथा आयुषि सामान्येनैकं बन्धस्थानं चतुर्णामन्यतमत् , परस्परविरुद्धत्वेन युगपद् द्वित्रायुषां बन्धाभावात् / उदयस्थानमप्येकम् , तदपि चतुर्णामन्यतमत् , युगपद् द्वित्रायुषां उदयाभावात् / द्वे सत्तास्थाने, तद्यथा-द्वे एकं च / तत्रैकं चतुर्णामन्यतमत् यावदन्यत् परभवायुर्न बध्यते, परभवायुषि च बद्धे यावदन्यत्र परभवे नोत्पद्यते तावद् द्वे सती / ___ सम्प्रति संवेध उच्यते-तत्रायुषस्तिस्रोऽवस्थाः, तद्यथा-परभवायुर्बन्धकालात् पूर्वावस्था परभवायुर्बन्धकालावस्था परभवायुर्बन्धोत्तरकालावस्था च / तत्र नैरयिकस्य परभवायुर्बन्धकालात् पूर्वं नारकायुष उदयः नारकायुषः सत्ता, एष विकल्प आयेषु चतुर्पु गुणस्थानकेषु, शेषगुणस्थानकस्य नरकेष्वसम्भवात् / परभवायुर्बन्धकाले तिर्यगायुषो बन्धो नारकायुष उदयः नारक-तिर्यगायुषी सती, एष विकल्पो मिथ्यादृष्टेः सासादनस्य वा, द्वयोरेवाद्ययोर्गुणस्थानकयोस्तिर्यगायुषो बन्धसम्भवात् ; अथवा मनुष्यायुषो बन्धः नारकायुष उदयः मनुष्य-नारकायुषी सती, एष विकल्पो मिथ्यादृष्टेः सासादनस्याविरतसम्यग्दृष्टेर्वा / बन्धोत्तरकौलं नारकायुष उदयो 'नारक-तिर्यगायुषी सती, एष विकल्प आयेषु चतुर्ध्वपि गुणस्थानकेषु, तिर्यगायुबन्धानन्तरं कस्यापि सम्यक्त्वे सम्यग्मिथ्यात्वे वा गमनसम्भवात् ; अथवा नारकायुष उदयो मनुष्य-नारका'. युषी सती / इह नारका देवायुः नारकायुश्च भवप्रत्ययादेव न बध्नन्ति, तत्रोत्पत्त्यभावात् / 1 त० छा० क्षीणं तस्यैवायं विकल्पः य° // 2 मुद्रि० °कालं ना //