________________ 158 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः स्थानानि वेदितव्यानि / इदमुक्तं भवति—ये षड्विधबन्धकाः सम्यग्मिथ्यादृष्टि-अविरतसम्यग्दृष्टिदेशविरत-प्रमत्ता-प्रमत्ताः कियत्कालमपूर्वकरणाश्च तेषां चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता / एतेन च द्वौ विकल्पौ दर्शितौ, तद्यथा-वविधो बन्धश्चतुर्विध उदयः नवविधा सत्ता, अथवा षड्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एतौ च द्वौ विकल्पौ क्षपकं मुक्त्वाऽन्यत्र सर्वत्रापि प्राप्येते / क्षपके त्वेक एव विकल्पः, तद्यथा—षड्विधो बन्धश्चतुर्विध उदयो नवविधा सत्ता। क्षपकस्य हि अत्यन्तविशुद्धत्वेन निद्रा-प्रचलयोर्नोदयः सम्भवति। तदुक्तं सत्कर्मग्रन्थे निदाँदुगस्स उदओ, खीणगखवगे परिचज्ज // ( ) तथा चतुर्विधबन्धकेषु कियत्कालमपूर्वकरणेषु अनिवृत्तिबादर-सूक्ष्मसम्परायेषु चोपशमश्रेणि प्रतीत्य चतुर्विधः पञ्चविधो वा उदयः नवविधा सत्ता / क्षपकश्रेणिमधिकृत्य पुनरुदयश्चतुर्विध एव, कारणमत्र प्रागेवोक्तम् / केचित् पुनः क्षपकक्षीणमोहेष्वपि निद्रा-प्रचलयोरुदयमिच्छन्ति, तत् सत्कर्म-कर्मप्रकृत्यादिग्रन्थैः सह विरुध्यते इत्युपेक्ष्यते / यावच्च क्षपकश्रेण्यामपि स्त्यानर्द्धित्रिकं न क्षीयते तावत् सत्ता नवविधैव, स्त्यानचित्रिके तु क्षीणे षड्विधा / तथा चाह--"चउबंधुदए छलंसा य" त्ति इह अंश इति सत्कर्माभिधीयते / यदाह चूर्णिकृत असे इति संतकम्मं भन्नई / ( ) . चतुर्विधे बन्धे चतुर्विध उदये अनिवृत्तिबादरसम्परायगुणस्थानकाद्धायाः सङ्ख्येयेभ्यो भागेभ्यः परतः स्त्यानर्द्धित्रिके क्षीणे षड्विधा सत्ता / एष च विकल्पस्तावत् प्राप्यते यावत् सूक्ष्मसम्परीयाद्धायाश्चरमसमयः, परतस्तु न प्राप्यते, बन्धाभावात् / तदेवं चतुर्विधबन्धकस्य त्रयो विकल्पाः, तद्यथा-चतुर्विधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, एष विकल्प उपशमश्रेण्यां क्षपकश्रेण्यां वा यावत् स्त्यानर्द्धित्रिकं न क्षीयते / चतुर्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एष उपशमश्रेण्याम् , क्षपकश्रेण्यां पञ्चविधोदयस्याभावात् / तथा चतुर्विधो बन्धश्चतुविध उदयः षड्विधा सत्ता, एष च विकल्पः क्षपकश्रेण्यां स्त्यानर्द्धित्रिकक्षयानन्तरमवसेयः // 8 // "उवरयबंधे” इत्यादि / 'उपरते' व्यवच्छिन्ने बन्धे चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता, एतौ च द्वौ विकल्पावुपशान्तमोहगुणस्थानके प्राप्यते / उपशमश्रेण्यां हि निद्राप्रचलयोरुदयः सम्भवति, स्त्यानर्द्धित्रिकं च न क्षयमुपगच्छति ततश्चतुर्विधः पञ्चविधो वा उदयो नवविधा च सत्ता प्राप्यते / तथा चतुर्विध उदयः षड्विधा सत्ता, एष विकल्पः क्षीणकषायस्य द्विचरमसमयं यावदवाप्यते / तथा चतुर्विध उदयश्चतुर्विधा सत्ता, एष विकल्पः क्षीणकषायस्य चरमसमये, निद्रा-प्रचलयोचिरमसमये एव क्षपितत्वात् / तदेवं दर्शनावरणे सर्वसङ्ख्यया एकादश विकल्पाः / यदि पुनः क्षपकक्षीणकषायेष्वपि निद्रा-प्रचलयोरुदय इष्यते तर्हि चतुर्विधो बन्धः पञ्चविध उदयः षड्विधा सत्ता, बन्धाभावे पञ्चविध उदयः षड्विधा सत्तेत्येतौ द्वौ विकल्पावधिको प्राप्येते इति त्रयोदश ज्ञातव्याः // सं०१त. कल्पौ दर्शयति. त° // 2 सं० 1 त पकत्वे त्वे // 3 निद्राद्विकस्य उदयः क्षीणकक्षपकौ परित्यज्य // 4 अंश इति सत्कर्म भण्यते // 5 मुद्रि० रायगुणस्थानकाद्धा //