________________ 157 6-9] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / प्राप्यते ? इति चेद् उच्यते-उपशमश्रेण्यामपूर्वकरणस्य द्वितीयभागप्रथमसमये चतुर्विधबन्धमारभ्याऽनन्तरसमये कश्चित् कालं करोति, कालं च कृत्वा दिवं गतः सन् अविरतो भवति, अविरतत्वे च षड्विधो बन्ध इत्येकसामयिकी चतुर्विधबन्धस्थानस्य स्थितिः / .. तथा नवप्रकृत्यात्मकं सत्तास्थानं दर्शनावरणस्य कालमधिकृत्य द्विधा—अनाद्यपर्यवसितं अनादिसपर्यवसितं च / तत्रानाद्यपर्यवसितमभव्यानाम् , कदाचिदप्यव्यवच्छेदात् / अनादिसपर्यवसानं भव्यानाम् , कालान्तरे व्यवच्छेदात् / सादिसपर्यवसानं तु न भवति, नवप्रकृत्यात्मकसत्तास्थानव्यवच्छेदो हि क्षपकश्रेण्यां भवति, न च क्षपकश्रेणीतः प्रतिपातो भवतीति कृत्वा / एतच्च सत्तास्थानम् उपशमश्रेणिमधिकृत्य उपशान्तमोहगुणस्थानकं यावदवाप्यते, क्षषकश्रेणिमविकृत्य पुनरनिवृत्तिबादरसम्परायगुणस्थानकस्य प्रथमभागम् / तथा षट्प्रकृत्यात्मकं सत्तास्थानं जघन्येनोत्कर्षेण चान्तर्मुहूर्तप्रमाणम् , तचानिवृत्तिबादरसम्परायगुणस्थानकस्य द्वितीयभागादारभ्य क्षीणमोहगुणस्थानकद्विचरमसमयं यावदवसेयम् / चतुष्प्रकृत्यात्मकं त्वेकसामयिकम् , क्षीणकषायचरमसमयभावित्वादिति / _ उदयस्थाने पुनढे भवतः, तद्यथा-चतस्रः पञ्च च / तत्र चतस्रश्चक्षुर्दर्शनावरणाऽचक्षुर्दर्शनावरणा-ऽवधिदर्शनावरण-केवलदर्शनावरणरूपौः / एतासां च समुदायो ध्रुवोदय इति एकं प्रकृतिस्थानम् / एतासु च चतसृषु मध्ये निद्रादीनां पञ्चानां प्रकृतीनां मध्याद् अन्यतमस्यां प्रकृतौ प्रक्षिप्तायां पञ्च / न हि निद्रादयो द्वित्रादिका युगपदुदयमायान्ति किन्त्वेकस्मिन् काले एकैवान्यतमा काचित् / निद्रादयश्च ध्रुवोदया न भवन्ति, कालादिसापेक्षत्वात् / अत इदं पञ्चप्रकृत्यात्मकमुदयस्थानं कदाचिद् लभ्यते // 7 // तदेवमुक्तानि दर्शनावरणस्य बन्ध-उदय-सत्ता अधिकृत्य प्रकृतिस्थानानि / सम्प्रति संवेधमभिधित्सुराह बीयावरणे नवबंधगेसु चउ पंच उदय नव संता। छच्चउबंधे चेवं, चउ बंधुदए छलंसा य // 8 // उवरयबंधे चउ पण, नवंस चउरुदय छच्च चउसंता / द्वितीयावरणं-दर्शनावरणं तस्मिन् द्वितीयावरणे 'नवबन्धकेषु' सकलदर्शनावरणोत्तरप्रकृतिबन्धकेषु मिथ्यादृष्टि-सासादनेषु "चउ पंच उदय" ति उदयश्चतुर्विधः पञ्चविधो वा। तत्र चतुर्विधश्चक्षुर्दर्शनावरणा-ऽचक्षुर्दर्शनावरणा-ऽवधिदर्शनावरण-केवलदर्शनावरणरूपः / स एव निद्रापञ्चकसत्कान्यतमप्रकृतिप्रक्षेपात् पञ्चविधः / सत्तामधिकृत्य पुनः प्रकृतिस्थानं 'नव' नवप्रकृत्यात्मकम् / तदेवं नवविधबन्धकेषु द्वौ विकल्पौ दर्शितौ, तद्यथा-नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, एष विकल्पो निद्रोदयाभावे; निद्रोदये तु नवविधो बन्धः पञ्चविध उदयो नवविधा सत्ता / “छच्चउबंधे चेवं" ति षड्बन्धे चतुर्बन्धे च ‘एवं' पूर्वोक्तप्रकारेण उदय-सत्ता १सं० सं० १त० छा० °तीति / एत° // 2 सं०१त० °नके द्विच // 3 सं०१ त० पाः / तासां च // 4 म० मुद्रि० इति कृत्वा एकं प्रकृ° // 5 सं० 1 त० म० छा० 'त्र्यादिका /