________________ 156 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः - तदेवं कृता उत्तरप्रकृतीनां प्ररूपणा / सम्प्रति ज्ञानावरणीयस्य तत्तुल्यत्वादन्तरायस्य चोत्तरप्रकृतीरधिकृत्य बन्धादिस्थानप्ररूपणार्थमाह बंधोदयसंतंसा, नाणावरणंतराइए पंच / बंधोवरमे वि तहा, उदसंता हुंति पंचेव // 6 // ज्ञानावरणे अन्तराये च प्रत्येकं बन्ध-उदय-सत्तारूपा अंशाः 'पञ्च' पश्चप्रकृत्यात्मकाः / इदमुक्तं भवति—ज्ञानावरणे बन्धमुदयं सत्तां चाधिकृत्य सदैव पञ्च प्रकृतयो मतिज्ञानावरणश्रुतज्ञानावरणा-ऽवधिज्ञानावरण-मनःपर्यवज्ञानावरण-केवलज्ञानावरणरूपाः प्राप्यन्ते, न त्वेकद्वित्र्यादिकाः, ध्रुवबन्धादित्वात् / अन्तरायेऽपि बन्धमुदयं सत्तां चाधिकृत्य प्रत्येकं सदैव दानान्तराय-लाभान्तराय-भोगान्तराय-उपभोगान्तराय-वीर्यान्तरायरूपाः पञ्च प्रकृतयः प्राप्यन्ते, न त्वेकद्वित्र्यादिकाः, ध्रुवबन्धादित्वादेव / तथा च सति ज्ञानावरणेऽन्तराये च बन्धादिषु प्रत्येकमेकं पञ्चप्रकृत्यात्मकं प्रकृतिस्थानमिति / सम्प्रति संवेध उच्यते-ज्ञानावरणस्य बन्धकाले पञ्चविधो बन्धः पञ्चविध उदयः पञ्च-. विधा सत्ता, एवमन्तरायस्यापि / एष च विकल्पो द्वयोरपि सूक्ष्मसम्परायगुणस्थानकं यावदवगन्तव्यः / बन्धाभावे पुनर्ज्ञानावरणे अन्तराये च प्रत्येकं पञ्चविध उदयः पञ्चविधा सत्ता / तथा चाह—"बंधोवरमे वि" इत्यादि। 'बन्धोपरमेऽपि' बन्धाभावेऽपि ज्ञानावरणा-ऽन्तराययोः 'तथा' इति समुच्चये उदय-सत्ते भवतः (ग्रन्थानम्-५००) 'पञ्चैव' पञ्चप्रकृत्यात्मके एव, न त्वेकद्विव्यादिके, ध्रुवोदय-सत्ताकत्वात् / एष च विकल्पो द्वयोरप्युपशान्तमोहे क्षीणमोहे च प्राप्यते // 6 // सम्प्रति दर्शनावरणस्योत्तरप्रकृतीरधिकृत्य बन्धादिस्थानप्ररूपणार्थमाह बंधस्स य संतस्स य, पगइहाणाइँ तिन्नि तुल्लाइं / ' उदयहाणाई दुवे, चउ पणगं दसणावरणे // 7 // दर्शनावरणाख्ये द्वितीये कर्मणि बन्धस्य सत्तायाश्च परस्परं 'तुल्यानि' तुल्यस्वरूपाणि त्रीणि प्रकृतिस्थानानि भवन्ति / तद्यथा-नव षट् चतस्रः / तत्र सर्वप्रकृतिसमुदायो नव, ता एव नव स्त्यानर्द्धित्रिकहीनाः षट्, एताश्च षड् निद्रा-प्रचलाहीनाश्चतस्रः / तत्र नवप्रकृत्यात्मकं बन्धस्थानं मिथ्यादृष्टौ सासादने वा / तच्चाभव्यानधिकृत्यानाद्यपर्यवसानम् , कदाचिदपि व्यवच्छेदाभावात् ; भव्यानधिकृत्यानादिसपर्यवसानम् , कालान्तरे व्यवच्छेदसम्भवात् ; सम्यक्त्वात् प्रतिपत्य मिथ्यात्वं गतानां सादिसपर्यवसानम् ; तच्च जघन्यतोऽन्तर्मुहूर्त कालं यावत् , उत्कर्षतो देशोनापार्धपुद्गलपरावर्तम् / षट्प्रकृत्यात्मकं बन्धस्थानं सम्यग्मिथ्यादृष्टिगुणस्थानकादारभ्याऽपूर्वकरणस्य प्रथमं भागं यावत् / तच्च जघन्यतोऽन्तर्मुहूर्त कालम् , उत्कर्षतो द्वे षट्पष्टी सागरोपमाणाम् , सम्यक्त्वस्यापान्तराले सम्यग्मिथ्यात्वान्तरितस्यैतावन्तं कालमवस्थानसम्भवात् ; तत ऊर्ध्वं तु कश्चित् क्षपकश्रेणि प्रतिपद्यते कश्चित् पुनर्मिथ्यात्वम् , मिथ्यात्वे च प्रतिपन्ने सति अवश्यं नवविधो बन्धः / चतुष्प्रकृत्यात्मकं तु बन्धस्थानमपूर्वकरणद्वितीयभागादारभ्य सूक्ष्मसम्परायं यावत् / तच्च जघन्येनैकं समयम् , उत्कर्षतोऽन्तर्मुहूर्तम् / एकं समयं यावत् कथं