________________ 155 चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणेम् / नां प्रतिनियतस्थानवर्तिता भवति तद् निर्माणनाम / यदुदयवशाद् अष्टमहापातिहार्यप्रमुखाश्चतुस्त्रिंशदतिशयाः प्रादुर्भवन्ति तत् तीर्थकरनाम / इह पिण्डप्रकृतीनामवान्तरभेदगणने पञ्चषष्टिर्भवति, शेषाश्च प्रकृतयोऽष्टाविंशतिः, ततः सर्वसङ्ख्यया नाम उत्तरभेदास्त्रिनवतिः // गोत्रस्योत्तरप्रकृती द्वे, तद्यथा—उच्चैर्गोत्रं च नीचैर्गोत्रं च / तत्र यदुदयादुत्तमजातिकुलप्राप्तिः सत्काराभ्युत्थानाञ्जलिप्रग्रहादिरूपपूजालाभसम्भवश्व तदुच्चैर्गोत्रम्, तद्विपरीतं नीचैर्गोत्रम् // __ अन्तरायस्योत्तरप्रकृतयः पञ्च, तद्यथा—दानान्तरायं लाभान्तरायं भोगान्तरायम् उपभोगान्तरायं वीर्यान्तरायं च / तत्र यदुदयवशात् सति विभवे समागते च गुणवति पात्रे 'दत्तमस्मै बहुफलम्' इति जानन्नपि दातुं नोत्सहते तद् दानान्तरायम् 1 / यदुदयवशात् पुनः प्रसिद्धादपि दातुर्गृहे विद्यमानमपि देयमर्थजातं याचाकुशलो गुणवानपि याचको न लभते तद् लाभान्तरायम् 2 / यदुदयात्तु सत्यपि विशिष्टाहारादौ असति च प्रत्याख्यानपरिणामे केवलकार्पण्याशक्त्यादिकारणवशाद् नोत्सहते विशिष्टाहारादि भोक्तुं तद् भोगान्तरायम् 3 / एवमेवोपभोगान्तरायमपि / नवरं भोगोपभोगयोरयं विशेषः--सकृद् भुज्यत इति भोगः, पुनः पुनर्भुज्यत इत्युपभोगः 4 / ऊक्तं च सेइ भुजइ त्ति भोगो, सो पुण आहारपुप्फमाईओ। ___उवभोगो उ पुणो पुण, उवभुज्जइ भवणविलयाई // (बृहत्कर्म० वि० गा० 165) तथा यदुदयवशात् सत्यपि नीरुजि शरीरे यूनोऽप्यल्पप्राणता भवति तद् वीर्यान्तरायम् 5 // इह बन्धे उदये च बन्धनानि सङ्घातनामानि च स्वशरीरनामग्रहणेनैव गृहीतानि विवक्ष्यन्ते, तद्यथा- औदारिकशरीरनामग्रहणेन औदारिकबन्धन-सङ्घातनाम्नी, वैक्रियशरीरनामग्रहणेन वैक्रियबन्धन-सङ्घातनाम्नी इत्यादि / वर्णादीनां चावान्तरभेदा न विवक्ष्यन्ते। तथा बन्धे सम्यक्त्व-सम्यग्मिथ्यात्वे न भवतः, यतो मिथ्यात्वपुद्गलानामेव जीवः सम्यक्त्वगुणेन मिथ्यात्वरूपतामपनीय केषाञ्चिदत्यन्तविशुद्धिमापादयति, अपरेषां त्वीषद्विशुद्धिम् , केचित् पुनर्मिथ्यात्वरूपा एवावतिष्ठन्ते; तत्र येऽत्यन्तविशुद्धास्ते सम्यक्त्वव्यपदेशभाजः, ईषद्विशुद्धाः सम्यग्मिथ्यात्वव्यपदेशभाजः, शेषा मिथ्यात्वमिति / उक्तं च सम्यक्त्वगुणेन ततो, विशोधयति कर्म तत् स मिथ्यात्वम् / यद्वत् शकृत्प्रमुखैः, शोध्यन्ते कोद्रवा मदनाः // यत् सर्वथाऽपि तत्र विशुद्धं तद् भवति कर्म सम्यक्त्वम् / मिश्रं तु दरविशुद्धं, भवत्यशुद्धं च मिथ्यात्वम् // ( ) उदये पुनः सम्यक्त्व-सम्यग्मिथ्यात्वे अपि भवतः / ततो बन्धे उत्तरप्रकृतीनां विंशं शतम्, उदये च द्वाविशं शतम् , सत्तायां च बन्धनानि सङ्घातनामानि च पृथग् विवक्ष्यन्ते, वर्णादीनां चावान्तरभेदाः पृथग् गण्यन्ते, ततः सर्वसङ्ख्यया सत्तायामष्टचत्वारिंशं शतमुत्तरप्रकृतीनौमिति / . 1 सं० 1 त० म० °लाभादिसं° // 2 सकृद् भुज्यत इति भोगः स पुनराहारपुष्पादिकः / उपभोगस्तु पुनः पुनरुपभुज्यते भवनवनितादि // 2 सं० °नामवसेयम् /