________________ 154 - मलयगिरिमहर्षिविनिर्मितविघृत्युपेतं [गाथाः कामिन्याः पादेनापि स्पृष्टस्तुष्यति ततो व्यभिचार इति चेद् , न, तत्तोषस्य मोहनीयनिबन्धनत्वात् , वस्तुस्थितिश्चेह चिन्त्यते ततोऽदोषः / तथा यदुदयवशाद् जीवस्य स्वरः श्रोत्रप्रीतिहेतुरुपजायते तत् सुस्वरनाम / यदयात् स्वरः कर्णकटुः प्रादुर्भवति तद् दुःस्वरनाम / यदुदयवशाद् अनुपकार्यपि सर्वस्य मनःप्रियो भवति तत् सुभगनाम / यदुदयवशाद् उपकारकृदपि जनस्य द्वेष्यो भवति तद् दुर्भगनाम, उक्तं च-- अणुवकए वि बहूणं, होइ पिओ तस्स सुभगनामुदओ / उवगारकारगो वि हु, न रुच्चई दूभगस्सुदए / सुभगुदए वि हु कोई, कंची आसज्ज दुब्भगो जइ वि / जायइ तद्दोसाओ, जहा अभवाण तित्थयरो // ( ) - यदुदयवशाद् यत् किञ्चिदपि ब्रुवाणः सर्वस्योपादेयवचनो भवति दर्शनसमनन्तरमेव च लोकोऽभ्युत्थानादि समाचरति तद् आदेयनाम / यदुदयवशाद् उपपन्नमपि ब्रुवाणो नोपादेयवचनो भवति, न च लोकोऽभ्युत्थानादि तस्य करोति तद् अनादेयनाम / यदुदयवशाद् मध्यस्थजनप्रशस्यो भवति तद् यशःकीर्तिनाम / यदुदयवशाद् मध्यस्थजनस्यापि अप्रशस्यो भवति तद् अयशःकीर्तिनाम / यशः-कीर्योश्चायं विशेषः दानपुण्यकृता कीर्तिः, पराक्रमकृतं यशः। अथवा एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः। . तथा यदुदयवशाद् जीवानां शरीराणि न गुरूणि नापि लघूनि नापि गुरुलघूनि किन्त्वगुरुलघुपरिणामपरिणतानि भवन्ति तद् अगुरुलघुनाम / यदुदयवशात् खशरीरान्तःप्रवर्धमानैः प्रतिजिह्वा-गलवृन्द-लम्बक-चोरदन्तादिभिर्जन्तुरुपहन्यते तद् उपघातनाम / यदुदयवशाद् ओजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा महानृपसभामपि गतः सभ्यानामपि क्षोभमापादयति प्रतिपक्षप्रतिभाप्रतिघातं च करोति तत् पराघातनाम / यदुदयवशाद् उच्छ्वास-निःश्वासलब्धिरुपजायते तद् उच्छासनाम / यदुदयवशाद् जन्तुशरीराणि भानुमण्डलगतपृथिवीकायिकरूपाणि स्वरूपेणाऽनुष्णान्यपि उष्णप्रकाशलक्षणमातपं कुर्वन्ति तद् आतपनाम / आतपनामोदयश्च वह्निशरीरे न भवति, सूत्रे प्रतिषेधात् ; तत्रोष्णत्वमुष्णस्पर्शनामोदयात् , उत्कटलोहितवर्णनामोदयाच प्रकाशकत्वमिति। तथा यदुदयवशाद् जन्तुशरीराणि अनुष्णप्रकाशरूपमुद्योतमातन्वन्ति यथा यति-देवोत्तरवैक्रियचन्द्र-ग्रह-नक्षत्र-तारा-रत्न-औषधयः तद् उद्योतनाम / यदुदयवशाद् जन्तुशरीरेष्वङ्ग-प्रत्यङ्गा 1 सं० 1 त० °दयवशात् // 2 अनुपकृतेऽपि बहूनां भवति प्रियस्तस्य सुभगनामोदयः / उपकारकारकोऽपि हि न रुच्यते दुर्भगस्योदये // सुभगोदयेऽपि हि कोऽपि कञ्चिद् आसाद्य दुर्भगो यद्यपि / जायते तदोषाद् यथाऽभव्यानां तीर्थकरः // 3 सं० 1 त० म० जीवो, कं° //