________________ चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 153 नाम विहायोगतिनाम, तद् द्विविधम्-प्रशस्तविहायोगतिनाम अप्रशस्तविहायोगतिनाम / तत्र यदुदयाद् जन्तोः प्रशस्ता विहायोगतिर्भवति यथा हंसादीनां तत् प्रशस्तविहायोगतिनाम 1 / - यदुदयात् पुनरप्रशस्ता विहायोगतिर्भवति यथा खरादीनां तद् अप्रशस्तविहायोगतिनाम 2 / ___एताश्च गत्यादयो विहायोगतिपर्यन्ताश्चतुर्दश प्रकृतयः शास्त्रान्तरे पिण्डप्रकृतय इति विश्रुताः, अनेकावान्तरभेदपिण्डात्मकाः प्रकृतयः पिण्डप्रकृतय इति व्युत्पत्तेः। तथा त्रसन्ति-उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानाद् उद्विजन्ते गच्छन्ति च च्छायाद्यासेवनार्थ स्थानान्तरमिति त्रसाः-द्वीन्द्रियादयः, तत्पर्यायपरिणतिहेतुर्नाम त्रसनाम / तद्विपरीतं स्थावरनाम, यदुदयाद् उष्णाद्यभितापेऽपि तत्स्थानपरिहारासमर्थाः पृथिवि-अप्-तेजः-वायु-वनस्पतयः स्थावरा जायन्ते / तथा बादरनाम, यदुदयाद् जीवा बादरा भवन्ति, बादरत्वं च परिणामविशेषः, यद्वशात् पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुर्ग्राह्यत्वाभावेऽपि बहूनां समुदाये चक्षुर्ग्रहणं भवति / तद्विपरीतं सूक्ष्मनाम, यदुदयाद् न कदाचिदपि जन्तुशरीरस्य चक्षुर्माह्यता भवति / पर्याप्तकनाम, यदुदयात् स्वयोग्यपर्याप्तिनिर्वर्तनसमर्थो भवति, पर्याप्तिः-आहारादिपुद्गलग्रहण-परिणमनहेतुरात्मनः शक्तिविशेषः, सा च षोढा, तद्यथा-आहारपर्याप्तिः शरीरपर्याप्तिः इन्द्रियपर्याप्तिः उच्छासपर्याप्तिः भाषापर्याप्तिः मनःपर्याप्तिश्च / तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः 1 / यया रसीभूतमाहारं रसा-ऽसृग्-मांस-मेद:अस्थि-मज्ज-शुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः 2 / यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः 3 / यया पुनरुच्छ्वासप्रायोग्यवर्गणादलिकमादाय उच्छासरूपतया परिणमय्य आलम्ब्य च मुञ्चति सा उच्छ्वासपर्याप्तिः 4 / यया तु भाषाप्रायोग्यवर्गणादलिकं गृहीत्वा भाषात्वेन परिणमय्य आलम्ब्य च मुञ्चति सा भाषापर्याप्तिः 5 / यया पुनर्मनोयोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्य आलम्ब्य च मुञ्चति सा मनःपर्याप्तिः 6 / एताश्च यथाक्रममेकेन्द्रियाणां संज्ञिवर्जानां द्वीन्द्रियादीनां संज्ञिनां च चतुः-पञ्च-षट्सङ्ख्या भवन्ति / पर्याप्तकनामविपरीतमपर्याप्तकनाम, यदुदयात् स्वयोग्यपर्याप्तिपरिसमाप्तिसमर्थो न भवति / प्रत्येकनाम, यदुदयाद् एकैकस्य जन्तोरेकैकमौदारिकं वैक्रियं वा शरीरं भवति / तद्विपरीतं साधारणनाम, यदुदयाद् अनन्तानां जीवानामेकमौदारिकं शरीरं भवति / तथा यदुदयात् शिरः-अस्थिग्रीवादीनामवयवानां स्थिरता भवति तत् स्थिरनाम / यदुदयात् भ्रू-जिह्वादीनामवयवानामस्थिरता भवति तद् अस्थिरनाम / यदुदयवशाद् नाभेरुपर्यवयवाः शुभा भवन्ति तत् शुभनाम / यदुदयवशाद् नामेरधः पादादयोऽवयवा अशुभा भवन्ति तद् अशुभनाम / शिरसा हि स्पृष्टस्तुष्यति, पादेन तु रुष्यति / 1 सं०१ त०म० °षः, स च // 20