________________ 152 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः शरीरावयवा यस्य तत् समचतुरस्रम् , समासान्तोऽत्प्रत्ययः, समचतुरस्रसंस्थाननिबन्धनं नाम समचतुरस्रनाम 1 / तथा न्यग्रोधवत् परिमण्डलं यस्य तद् न्यग्रोधपरिमण्डलम् , यथा न्यग्रोध उपरि सम्पूर्णावयवोऽधस्तु हीनस्तथा यत् संस्थानं नाभेरुपरि सम्पूर्णप्रमाणम् , अधस्तु न तथा तद् न्यग्रोधपरिमण्डलम् , तन्निबन्धनं नाम न्यग्रोधपरिमण्डलनाम 2 / तथा सह आदिनानामेरधस्तनभागरूपेण यथोक्तप्रमाणयुक्तेन वर्तत इति सादि, सर्वमपि हि शरीरं सादि ततः सादित्वविशेषणान्यथानुपपत्तेरादिरिह विशिष्टो ज्ञातव्यः, ततो यत्र नाभेरधो यथोक्तप्रमाणयुक्तमुपरि च हीनं तत् सादिसंस्थानम् , तन्निबन्धनं नाम सादिनाम 3 / तथा यत्र शिरः-ग्रीवं हस्तपादादिकं च यथोक्तप्रमाणोपपन्नं उरः-उदरादि च मर्डंभं तत् कुब्जसंस्थानम् , तन्निबन्धनं नाम कुब्जनाम 4 / यत्र पुनरुरः-उदरादि यथोक्तप्रमाणोपेतं हस्तपादादिकं च हीनं तत् संस्थानं वामनम् , तन्निबन्धनं नाम वामननाम 5 / यत्र सर्वेऽप्यवयवा यथोक्तप्रमाणहीनास्तत् संस्थान हुण्डम् , तन्निबन्धनं नाम हुण्डनाम / ___ तथा वर्ण्यते-अलकियते शरीरमनेनेति वर्णः, तन्निबन्धनं नाम वर्णनाम, तत् पञ्चधा, तद्यथा-शुक्लनाम कृष्णनाम नीलनाम हारिद्रनाम लोहितनाम / तत्र यदुदयाद् जन्तुशरीरेषु शुक्लो वर्णो भवति तत् शुक्लनाम / एवं शेषाण्यपि भावनीयानि / तथा “गन्ध अर्दने" गन्ध्यते-आघ्रायते इति गन्धः, तन्निबन्धनं नाम गन्धनाम, तद् द्विधा–सुरभिगन्धनाम दुरभिगन्धनांम / तत्र यदुदयात् शरीरेषु गन्धः सुरभिरुपजायते तत् सुरभिगन्धनाम, यदुदयात् पुनर्दुरभिगन्धो भवति तद् दुरभिगन्धनाम / तथा रस्यते-आखाद्यते इति रसः, तन्निबन्धनं नाम रसनाम, तत् पञ्चधा, तद्यथातिक्तनाम कटुनाम कषायनाम अम्लनाम मधुरनाम / तत्र यदुदयाद् जन्तुशरीरेषु तिक्तो रसो भवति तत् तिक्तनाम / एवं शेषाण्यपि भावनीयानि / ____ तथा स्पृश्यत इति स्पर्शः, तन्निबन्धनं नाम स्पर्शनाम, तदष्टधा, तद्यथा-मृदुनाम कर्कशनाम गुरुनाम लघुनाम स्निग्धनाम रूक्षनाम शीतनाम उष्णनाम। तत्र यदुदयाद् जन्तुशरीरेषु मृदुः स्पर्शो भवति तद् मृदुस्पर्शनाम / एवं शेषाण्यपि भावनीयानि / तथा कूर्पर-लागल-गोमूत्रिकाकाररूपेण यथाक्रमं द्वि-त्रि-चतुःसमयप्रमाणेन विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणि गमनं आनुपूर्वी, तन्निबन्धनं नाम आनुपूर्वीनाम, तच्चतुर्विधम् , तद्यथा--नरकानुपूर्वानाम तिर्यगानुपूर्वीनाम मनुष्यानुपूर्वीनाम देवानुपूर्वीनाम / तथा विहायसा गतिः-गमनं विहायोगतिः / ननु सर्वगतत्वाद् विहायसस्ततोऽन्यत्र गतिरेव न सम्भवतीति किमर्थं विहायसा विशेषणम् ? सत्यमेतत्, किन्तु यदि गतिरित्येवोच्येत तर्हि नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्त्याशङ्का स्यात् ततस्तद्व्यवच्छेदार्थ विहायसा विशेषणम्, विहायसा गतिः न तु नारकत्वादिपर्यायपरिणतिरूपो गतिः विहायोगतिः, तन्निबन्धनं 1 छा० °डहं-प्रमाणरहितं तत् संस्थानं कुब्ज° // 2 सं० 1 त० म० °पा विहायोग' //