________________ 5] / चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / तथा बध्यतेऽनेनेति बन्धनम्, यदुदयाद् औदारिकादिपुद्गलानां पूंवगृहीतानां गृह्यमाणानां च परस्परमन्यशरीरपुद्गलैश्च सह सम्बन्धः / तत् पञ्चधा, तद्यथा—औदारिकबन्धनं वैक्रियबन्धनम् आहारकबन्धनं तैजसबन्धनं कार्मणबन्धनम् / तत्र यदुदयाद् औदारिकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च परस्परं तैजसादिशरीरपुद्गलैश्च सह सम्बन्धः तद् औदारिकबन्धनम् 1 / एवं वैक्रियबन्धनम् 2 आहारकबन्धनं 3 च भावनीयम् / यदुदयात् पुनस्तैजसपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च परस्परं कार्मणशरीरपुद्गलैश्च सह सम्बन्धस्तत् तैजसबन्धनम् 4 / यदुदयात् कर्मपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च परस्परं सम्बन्धस्तत् कार्मणबन्धनम् 5 / केचित् पुनर्बन्धनस्य पञ्चदश भेदानाचक्षते, ते च पञ्चसङ्ग्रहादिग्रन्थतो वेदितव्याः / तथा सङ्घात्यन्ते-पिण्डीक्रियन्ते औदारिकादिपुद्गला येन तत् सङ्घातम्, तच्च तन्नाम च सङ्घातनाम, तच्च पञ्चधा, तद्यथा-औदारिकसङ्घातनाम वैक्रियसङ्घातनाम आहारकसङ्घातनाम तैजससङ्घातनाम कार्मणसङ्घातनाम / तत्र यदुदयाद् औदारिकपुद्गला ये यत्र योग्यास्तान् तत्र सङ्घातयति, यथा-शिरोयोग्यान् शिरसि पादयोग्यान् पादयोः शेषाङ्गयोग्यान् शेषाङ्गेषु तद् औदारिकसङ्घातनाम / एवं वैक्रियसङ्घातनामादिष्वपि भावनीयम् / तथा संहननं अस्थिरचनाविशेषः, तच्चौदारिकशरीरे एव नान्येषु शरीरेषु, तेषां अस्थिरहितत्वात् / तच्च षोढा, तद्यथा-वज्रर्षभनाराचम् ऋषभनाराचं नाराचम् अर्धनाराचं कीलिका सेवात च / तत्र वज्र-कीलिका, ऋषभः-परिवेष्टनपट्टः, नाराचम्-उभयतो मर्कटबन्धः / . उक्तं च रिसहो य होइ पट्टो, वजं पुण कीलिया मुणेयवा / उभओ मक्कडबंधो, नारायं तं वियाणाहि // (बृहत्कर्म०वि०गा०१०९) ततश्च द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्था परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद् वज्रर्षभनाराचम्, तन्निबन्धनं नाम वज्रर्षभनाराचनाम 1 / यत् पुनः कीलिकारहितं संहननं तद् ऋषभनाराचम्, तन्निबन्धनं नाम ऋषभनाराचनाम 2 / यत्र पुनर्मर्कटबन्ध एव केवलो भवति न पुनः कीलिका ऋषभसंज्ञः पट्टश्च तद् नाराचम् , तन्निबन्धनं नाम नाराचनाम 3 / यत्र त्वेकपार्श्वन मर्कटबन्धो द्वितीयपार्श्वेन च कीलिका भवति तद् अर्धनाराचम्, तन्निबन्धनं नाम अर्धनाराचनाम 4 / यत्र त्वस्थीनि कीलिकामात्रविद्धान्येव भवन्ति तत् कीलिकासंहननम् , तन्निबन्धनं नाम कीलिकानाम 5 / यत्र तु परस्परं पर्यन्तसंस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति स्नेहाभ्यवहारतैलाभ्यङ्गविश्रामणादिरूपां च परिशीलनां नित्यमपेक्षन्ते यत्र तत् सेवार्तम् तन्निबन्धनं नाम सेवार्तनाम 6 / * तथा संस्थानम्-आकारविशेषः, तच्च षोढा, तद्यथा-समचतुरस्रं न्यग्रोधपरिमण्डलं सादि वामनं कुब्ज हुण्डं चेति / तत्र समाः यथोक्तप्रमाणाश्चतस्रोऽस्रयः-चतुर्दिग्विभागोपलक्षिताः * 1 ऋषभश्च भवति पट्टो वजं पुनः कीलिका ज्ञातव्या / उभयतो मर्कटबन्धो नाराचं तद् विजानीहि // 2 सं० छा० म० °त्रबद्धा // 3 छा० °त्यमियति येन त° //