________________ 150 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाः मनुष्याणाम् / वैक्रियनिबन्धनं नाम वैक्रियनाम 2 / तथा चतुर्दशपूर्वविदा तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशाद् आह्रियते-निवर्त्यते इत्याहारकम् , कृत् "बहुलम् " (सिद्धहे० 5-1-2) इति वचनात् , कर्मणि वुञ् यथा पादहारक इत्यादौ, तच्च वैक्रियापेक्षयाऽत्यन्तशुभं स्वच्छस्फटिकशिलेव शुभ्रपुद्गलसमूहघटनात्मकं वस्तुप्रतिबिम्बाधारभूतम्, तन्निबन्धनं नाम आहारकनाम 3 / तथा तेजसा-तेजःपुद्गलैर्निर्वृत्तं तैजसम् , यद् भुक्ताहारपरिणमनहेतुः यदशाच्च विशिष्टतपोमाहात्म्यसमुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः, तन्निबन्धनं नाम तैजसनाम 4 / तथा कर्मणो विकारः कार्मणम् , कर्मपरमाणव एवात्मप्रदेशैः सह क्षीर-नीरवदन्योऽन्यानुगताः सन्तः कार्मणं शरीरम् / तदुक्तं कम्मविगारो कम्मणमट्ठविहविचित्तकम्मनिप्फन्नं / सवेसि सरीराणं, कारणभूयंमुणेयचं // (अनुयो० हा० टी० पत्र 87) अत्र "सबेर्सि" इति सर्वेषाम्-औदारिकादीनां शरीराणां 'कारणभूतं' बीजभूतं कार्मणशरीरम् / न खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावसम्भवः / इदं च कार्मणशरीरं जन्तोर्गत्यन्तरसङ्क्रान्तौ साधकतमं करणम्, तथाहि—कार्मणेनैव वपुषा परिकरितो जन्तुर्मरणदेशमपहाय उत्पत्तिदेशमभिसर्पति। ननु यदि कार्मणवपुःपरिकरितो गत्यन्तरं सक्झामति तर्हि स गच्छन्नागच्छन् वा कस्माद् नोपलक्ष्यते ? उच्यते-कर्मपुद्गलानामतिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात् / आह च प्रज्ञाकरगुप्तोऽपि अन्तरा भवदेहोऽपि, सूक्ष्मत्वानोपलक्ष्यते / निष्कामन् प्रविशन् वापि, नाभावोऽनीक्षणादपि // ( ) तन्निबन्धनं नाम कार्मणनाम, यदुदयात् कर्मप्रायोग्यान् पुद्गलानादाय कर्मरूपतया च परिणमय्य जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयति 5 / / तथा अङ्गान्यष्टौ शिरःप्रभृतीनि, तदुक्तम् सीसैमुरोयर पिट्ठी, दो बाहू ऊरुया य अटुंगा / (वृहत्कर्म०वि०गा०९१) / अङ्गुल्यादीन्युपाङ्गानि, शेषाणि तु तत्प्रत्यवयवभूतानि अङ्गुलिपर्व-रेखादीनि अङ्गोपाङ्गानि / अगानि च उपाङ्गानि च अङ्गोपाङ्गानि, अङ्गोपाङ्गानि च अङ्गोपाङ्गानि च अङ्गोपाङ्गानि, "स्यादावसङ्ख्येयः" (सिद्धहे० 3-1-119) इत्येकशेषः, तन्निबन्धनं नाम अङ्गोपाङ्गनाम / तत् विधा, तद्यथा-औदारिकाङ्गोपाङ्गनाम वैक्रियाङ्गोपाङ्गनाम आहारकाङ्गोपाङ्गनाम / तत्र यदुदयाद् औदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तद् औदारिकाङ्गोपाङ्गनाम 1, एवं वैक्रिया-ऽऽहारकाङ्गोपाङ्गनाम्नी अपि 2-3 भावनीये / तैजस-कार्मणयोस्तु जीवप्रदेशसंस्थानानुरोधित्वाद् नाङ्गोपाङ्गसम्भव इति न तन्निबन्धनमझोपाङ्गनाम / 1 सं०१त. 'त्मकं तन्नि // 2 कर्मविकारः कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् / सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् // 3 सं०१त० म० °यति तत् कार्मणशरीरनामेत्यर्थः // 4 शीर्षमुरः उदरं पृषिः द्वौ बाहू ऊरुको च अष्ट अङ्गानि // 5 सं० छा० मुद्रि० °न्धनं नाम //