________________ 9-10] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 161 मत्तगुणस्थानकं यावत् / मनुष्यायुष उदयो मनुष्य-मनुष्यायुषी सती, एषोऽपि विकल्पः प्राग्वत् / मनुष्यायुष उदयो देव-मनुष्यायुषी सती, ऐष विकल्प उपशान्तमोहगुणस्थानकं यावत् , देवायुषि बद्धेऽप्युपशमश्रेण्यारोहसम्भवात् / सर्वसङ्ख्यया मनुष्याणां नव भङ्गाः / तदेवमायुषि सर्वसङ्ख्यया अष्टाविंशतिर्भङ्गाः // ___तथा गोत्रे सामान्येनैकं बन्धस्थानम्, तद्यथा-उच्चैर्गोत्रं नीचेर्गोत्रं वा, द्वयोः परस्परविरुद्वत्वेन युपपद्वन्धाभावात् / उदयस्थानमप्येकम्, तदपि द्वयोरन्यतरत् , परस्परविरुद्धत्वेन युगपद् द्वयोरुदयाभावात् / द्वे सत्तास्थाने, तद्यथा-द्वे एकं च / तत्र उच्चैर्गोत्र-नीचैर्गोत्रे समुदिते द्वे, तेजस्कायिक-वायुकायिकावस्थायां उच्चैर्गोत्रे उद्वलिते ऎकम्, अथवा नीचैर्गोत्रेऽयोगिकेवलिद्विचरमसमये क्षीणे एकम् / _____ सम्प्रति संवेध उच्यते-नीचैर्गोत्रस्य बन्धः नीचर्गोत्रस्योदयः नीचैर्गोत्रं सत्, एष विकस्पस्तेजस्कायिक-वायुकायिकेषु लभ्यते / तद्भवाद् उद्वृत्तेषु चाशेषजीवेष्वेक-द्वि-त्रि-चतुः-तिर्यपञ्चेन्द्रियेषु कियत्कालं नीचैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती, अथवा नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती, एतौ द्वौ विकल्पौ मिथ्यादृष्टिषु सासादनेषु वा, न सम्यग्मिथ्यादृष्ट्यादिषु, तेषां नीचैर्गोत्रबन्धाभावात् / तथा उच्चैर्गोत्रस्य बन्धो नीचेोत्रस्योदय उच्च-नीचैर्गोत्रे सती, एष विकल्पो मिथ्यादृष्टिगुणस्थानकादारभ्य देशविरतिगुणस्थानकं यावत् प्राप्यते न परतः, परतो नीचैर्गोत्रस्योदयाभावात् / तथा उच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्च-नीचेोत्रे सती, एष विकल्पो मिथ्यादृष्टेरारभ्य सूक्ष्मसम्परायगुणस्थानकं यावद् न परतः, परतो बन्धाभावात् / बन्धाभावे उच्चैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती, एष * 'विकल्प उपशान्तमोहगुणस्थानकादारभ्य अयोगिकेवलिद्विचरमसमयं यावदवसेयः / उच्चैर्गोत्रस्योदय उच्चैर्गोत्रं सत्, एष विकल्पोऽयोगिकेवलिचरमसमये / तदे सर्वसङ्ख्यथा सप्त भङ्गाः // __ मोहं परं वोच्छं // 9 // अतः परं मोहं वक्ष्ये, मोहनीयस्य बन्धादिस्थानानि वक्ष्य इत्यर्थः // 9 // तत्र प्रथमतो बन्धस्थानप्ररूपणार्थमाह बावीस एकवीसा, सत्तरसा तेरसेव नव पंच / चउ तिग दुगं च एकं, बंधहाणाणि मोहस्स // 10 // 'मोहस्य' मोहनीयस्य दश बन्धस्थानानि, तद्यथा-द्वाविंशतिः एकविंशतिः सप्तदश त्रयो 1 मुद्रि० अयमप्यप्रमत्तगुण स्थानकं यावत् // 2 मुद्रि० अयमुपशा° // 3 मुद्रि० एकम् , अाता नीचैर्गोत्रे उद्वलिते एकम् , अथ // 4 गाथेयं सप्ततिकाभाष्ये एकोनविंशतितमी // 5 भाष्ये तु-° : दस मोहे // 21