________________ 136 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथा: यथाख्यातचारित्री, स च महाप्रतरणपरिश्रन्तवद मोहसागरं तीर्खा विश्राम्यति / ततश्छद्मस्थवीतरागत्वद्विचरमसमये "दो निद्द" ति 'द्वे निद्रे' निद्रा-प्रचलालक्षणे क्षपयति, ततश्चरमसमये "विग्धवरणक्खए" त्ति विघ्नानि-दान-लाभ-भोग-उपभोग-वीर्यान्तरायलक्षणानि “वरण" त्ति प्राकृतत्वादाकारलोपे आवरणानि–मतिज्ञानावरण-श्रुतज्ञानावरणा-ऽवधिज्ञानावरण-मनःपर्यायज्ञानावरण-केवलज्ञानावरण-चक्षुर्दर्शनावरणा-ऽचक्षुर्दर्शनावरणा-ऽवधिदर्शनावरण-केवलदर्शनावरणलक्षणानि नव, ततो विघ्नानि चावरणानि च विघ्नावरणानि तेषां क्षये-निर्मूलोच्छेदेन 'ज्ञानी' केवलज्ञानी भवति / यदाहुः श्रीमदाराध्यपादाः चरमे नाणावरणं, पंचविहं दंसणं चउवियप्पं / पंचविहमंतरायं, खवइत्ता केवली होइ // (आव०नि० गा० 126) इदमुक्तं भवति–अविरतादीनामन्यतरः प्रथमसंहननः सुविशुद्धपरिणामः क्षपकश्रेणिमारूढो गुणस्थानक्रमेणानन्तानुबन्ध्यादीनुक्तप्रकारेण क्षपयन् यावत् क्षीणमोहचरमसमये विघ्नपञ्चक-ज्ञानावरणपञ्चक-दर्शनावरणचतुष्कं क्षपयित्वा सर्वसङ्ख्यया तु ज्ञानावरणपञ्चक-दर्शनावरणनवक-मोहनीयाष्टाविंशति-आयुस्त्रिक-नामप्रकृतित्रयोदशका-ऽन्तरायपञ्चकलक्षणास्त्रिषष्टिप्रकृतीःक्षपयित्वा केवलज्ञानी भवति / स च भगवान् भवस्थकेवली लोकमलोकं सर्व सर्वात्मनाऽविकलविमलकेवलेन पश्यति, न हि तदस्ति भूतं भवद् भविष्यद्वा यद् भगवान्न पश्यति / यदाहुः श्रीमदाराध्यपादाः संभिन्नं पासंतो, लोगमलोगं च सबओ सवं / / तं नथि जं न पासइ , भूयं भवं भविस्सं च // (आव०नि० गा० 127) . इत्थंभूतश्च सयोगिकेवली जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोनां पूर्वकोटी विहृत्य अयोगिकेवलिगुणस्थानकमारुह्य तविचरमसमये द्वासप्ततिप्रकृतीः तच्चरमसमये त्रयोदशंप्रकृतीश्च क्षपयित्वा शिवमचलमरुजमक्षयमव्याबाधममन्दानन्दरत्नसारमासादयतीति, उक्ता क्षपकश्रेणिः / तद्भणने च व्याख्याता "नमिय जिणं धुवबंधोदयसंता" इत्यादिद्वारगाथा / सम्प्रति शतगाथाप्रमाणत्वेन यथार्थनामकं शतकशास्त्रं समर्थयन्नाह—"देविंदसूरिलिहियं, सयगमिणं आयसरण?" त्ति देवेन्द्रसूरिणा-करालकलिकालपातालतलावमज्जद्विशुद्धधर्मधुरोद्धरणधुरीणश्रीमजगच्चन्द्रसूरिचरणसरसीरुहचञ्चरीककल्पेन लिखितम्-अक्षरविन्यासीकृतम् , कर्मप्रकृति-पञ्चसङ्ग्रह-बृहच्छतकादिशास्त्रेभ्य इति शेषः। किम् ? इत्याह-'शतकं' शतगाथाप्रमाणम् 'इदम्' अधुनैव व्याख्यातस्वरूपम् / किमर्थम् ? इत्याह—'आत्मस्मरणार्थम्' आत्मस्मृतिनिमित्तमिति // 100 // ॥इति श्रीमद्देवेन्द्रसूरिविरचिता स्वोपज्ञशतकटीका // 1 चरमे ज्ञानावरणं पञ्चविधं दर्शनं चतुर्विकल्पम् / पञ्चविधमन्तरायं क्षपयित्वा केवली भवति // २.संपूर्ण पश्यन् लोकमलोकं च सर्वतः सर्वम् / तन्नास्ति यन पश्यति भूतं भवद्भविष्यद्वा //