________________ 100] 137 ( // अथ प्रशस्तिः // ) विष्णोरिव यस्य विभोः, पदत्रयी व्यानशे जगन्निखिलम् / शतमखशतकप्रणतः, स श्रीवीरो जिनो जयतु // कुन्दोज्ज्वलकीर्तिभरः, सुरभीकृतसकलविष्टपाभोगः / लब्धिशतसिन्धुजलधिः, श्रीगौतमगणधरः पातु // तदनु सुधर्मस्वामी, जम्बू-प्रभवादयो मुनिवरिष्ठाः / श्रुतजलनिधिपारीणाः, भूयांसः श्रेयसे सन्तु // क्रमात् प्राप्ततपाचार्येत्यभिख्या भिक्षुनायकाः / समभूवन् कुले चान्द्रे, श्रीजगच्चन्द्रसूरयः // जगजनितबोधानां, तेषां शुद्धचरित्रिणाम् / विनेयाः समजायन्त, श्रीमद्देवेन्द्रसूरयः // स्वान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरिणा / स्वोपज्ञशतकटीका, सुबोधेयं विनिर्ममे // विबुधवरधर्मकीर्ति-श्रीविद्यानन्दसूरिमुख्यबुधैः / स्वपरसमयैककुशलैस्तदैव संशोधिता चेयम् // यद् गदितमल्पमतिना, सिद्धान्तविरुद्धमिह किमपि शास्त्रे / विद्वद्भिस्तत्त्वज्ञैः, प्रसादमाधाय तच्छोध्यम् // स्वोपज्ञशतकटीका, कृत्वेमां यन्मयाऽर्जितं सुकृतम् / ध्रुवबन्धादिविमुक्तः, समस्तु सर्वोऽपि तेन जनः // 8000000000000000 1000060.0000000 ग्रन्थानम्-४३४० समाप्तोऽयं स्वोपज्ञटीकोपेतःशतकनामा पञ्चमः कर्मग्रन्थः / हूं. शिवं भवतु सकल GROOM*orroo 00000000000