________________ 99-100] शतकनामा पञ्चमः कर्मग्रन्थः। 135 सूत्रादेशः / अन्ये पुनराहुः—षोडश कर्माण्येव पूर्व क्षपयितुमारभते, केवलमपान्तरालेऽष्टौ कषायान् क्षपयति, पश्चात् षोडश कर्माणीति, ततो "नपु" ति नपुंसकवेदं क्षपयति, ततः स्त्रीवेदमिति // 99 // छग पुं संजलणा दो, निद्दा विग्घवरणक्खए नाणी / देविंदसूरिलिहियं, सयगमिणं आयसरणट्ठा // 10 // ततः 'षट्कं' हास्य-रति-अरति-शोक-भय-जुगुप्सालक्षणम् , ततः पुंवेदं खण्डत्रयं करोति, तत्र खण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं क्रमः। अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदं क्षपयति, ततः पुरुषवेदम् , ततो हास्यादिषट्कम् , ततः स्त्रीवेदम् / अथ नपुंसकः प्रारम्भकः ततोऽसावनुदीर्णमपि प्रथमं स्त्रीवेदं क्षपयति, ततः पुरुषवेदम् , ततो हास्यादिषट्कम् ,ततो नपुंसकवेदम् / ततः संज्वलनान् क्रोध-मान-माया-लोभलक्षणान् प्रत्येकमन्तर्मुहूर्तमात्रकालेनोक्तेनैव न्यायेन क्षपयति / श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्तमेव, अन्तर्मुहर्तानामसङ्ख्येयभेदत्वात् / लोभचरमखण्डं तु सोयानि खण्डानि कृत्वा पृथक् पृथक् कालभेदेन क्षपयति / चरमखण्डं पुनरसङ्घयेयानि खण्डानि करोति, तान्यपि समये समय एकैकं क्षपयति / स्थापना चेयम् संज्वलनलोभ संज्वलनमाया संज्वलनमान संज्वलनक्रोध | पुरुषवेद | हास्य | रति |अरति| भय | शोक जुगुप्सा स्त्रीवेद नपुंसकवेद एकेंद्रियादिषोडशप्रकृति अप्र० क्रोध प्र० क्रोध अप्र० मान प्र० मान अप्र०माया प्र० माया|अप्र० लोभ प्र० लोभ | | देव-नारक-तिर्यगायूंषि 3 | सम्यक्त्वमोह. मिश्रमोह. मिथ्यात्वमोह. | अनं० क्रोध | अनं० मान | अनं०माया | अनं० लोभ | - इह च क्षीणदर्शनसप्तको निवृत्तिबादर उच्यते, तत ऊर्ध्वमनिवृत्तिबादरो याक्चरमलोभखण्डमिति, तत ऊर्ध्वमसापेयखण्डानि क्षपयन् सूक्ष्मसम्परायो यावच्चरमलोमाणुक्षयः, तत ऊर्व