________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथा: खीणम्मि दंसणतिए, कि होइ तओ तिदसणाईओ ? / भन्नइ सम्मदिट्टी, सम्मत्तखए कओ सम्मं ? // निवलियमयणकुद्दवरूवं मिच्छत्तमेव सम्मत्तं / खीणं न उ जो भावो, सद्दहणालक्खणो तस्स // सो तस्स विसुद्धयरो, जायइ सम्मत्तपुग्गलक्खयओ। दिट्ठि व सण्हसुद्धब्भपडलविगमे मणूसस्स // यदि वा जह सुद्धजलाणुगयं, दुद्धं सुद्धं जलक्खए सुतरं / सम्मत्तसुद्धपुग्गलपरिक्खए दंसणं एवं // (विशेषा०भा०गा०१३१८-२१) तम्मि य तइय चउत्थे, भवम्मि सिझंति खइयसम्मत्ते / सुरनरयजुगलिसु गई, इमं तु जिणकालियनराणं // ( ) तदेवं सप्तकक्षयोऽविरतसम्यग्दृष्टौ देशविरते प्रमत्तसंयतेऽप्रमत्तसंयते वा प्राप्यते / यदि पुनाबद्धायुः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यत्नमारभते / उक्तं च भाष्यकृता ___ इयरो अणुवरओ च्चिय, सयलि सेटिं समाणेइ / (विशेषा० भा० गा० 1325) तत्र यः सकलश्रेणिं करोति तस्य क्षपकस्य निजनिजभवे सुर-नारक-तिर्यगायुस्त्रयं व्यवच्छिन्नमेव / उक्तं च सुरनरयतिरियआउं, निययभवे सबजीवाणं // ( ) इति / एतदेवाह-"तिआउ" त्ति देवायु:-नारकायुः-तिर्यगायुर्लक्षणमायुस्त्रयम् , स च क्षपकः स्वल्पसम्यग्दर्शनावशेष एव "अड" त्ति अष्टप्रकृतीः-अप्रत्याख्यानावरण-प्रत्याख्यानावरणकषायरूपा युगपत् क्षपयितुमारभते / एतासु चार्धक्षपितास्वेवान्तराले त्रयोदश नामप्रकृतीस्तिस्रो दर्शनावरणप्रकृतीरुभयीः षोडश प्रकृतीः क्षपयति / तथाहि—“इगविगल" इत्यादि / “इग" ति एकेन्द्रियजातिः, त्रिकशब्दस्य प्रत्येकं सम्बन्धाद् विकलत्रिकम्-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियजातिलक्षणं स्त्यानर्द्धि त्रिकं-निद्रानिद्रा-प्रचलाप्रचला-स्त्यानद्धिरूपं "जोयं" ति उद्योतनाम, द्विकशब्दस्य प्रत्येकं सम्बन्धात् तिर्यग्द्विकं-तिर्यग्गति-तिर्यगानुपूर्वीरूपं नरकद्विकं-नरकगति-नरकानुपूर्वीरूपं स्थावरद्विकं स्थावर-सूक्ष्माख्यं “साहार" त्ति साधारणनाम आतपनामेति / ततो यदष्टानां कषायाणां यावदवशिष्टं तत् क्षपयति, सर्वमिदमन्तर्मुहूर्तमात्रेण क्षपयति, एष - 1 क्षीणे दर्शनत्रिके किं भवति स त्रिदर्शनातीतः / भण्यते, सम्यग्दृष्टिः, सम्यक्त्वक्षये कुतः सम्यक्त्वम् ? // निर्मदनीकृतमदनकोद्रवरूपं मिथ्यात्वमेव सम्यक्त्वम् / क्षीणं न तु यो भावः श्रद्धानलक्षणस्तस्य // स तस्य विशुद्धतरो जायते सम्यक्त्वपुद्गलक्षयतः / दृष्टिरिव श्लक्ष्णशुद्धाभ्रपटल विगमे मनुष्यस्य // यथा शुद्धजलानुगतं दुग्धं शुद्धं जलक्षये सुतराम् / सम्यक्त्वशुद्धपुद्गलपरिक्षये दर्शनमेवम् // तस्मिश्च तृतीये चतुर्थे भवे सिध्यति क्षायिकसम्यक्त्वे / सुरनारकयुग्मिषु गतिरिदं तु जिनकालीननराणां // 2 इतरोऽनुपरत एव सकलां श्रेणिं समापयति // 3 :सुरनिरयतिर्यगायषि निजकभवे सर्वजीवानाम //