________________ शतकनामा पञ्चमः कर्मग्रन्थः / 133 शुद्धपरिणाम उत्तमसंहननः / तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, अपरे तु धर्मध्यानोपगता एवेति / प्रतिपत्तिक्रमश्चायम्-अविरतो देशविरतः प्रमत्तसंयतोऽप्रमत्तसंयतो वा प्रथममन्तर्मुहूर्तेन “अण" ति अनन्तानुबन्धिनः क्रोध-मान-माया-लोभान् युगपत् क्षपयति / तदनन्ततमभागं तु मिथ्यात्वे प्रक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत् क्षपयति / यथा पतिसम्भृतो दावानलः खल्वर्धदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि दहति, एवमसावपि क्षपकस्तीवशुभपरिणामत्वात् सावशेषमन्यत्र प्रक्षिप्य क्षपयतीति / एवं पुनः “मीस" त्ति सम्यग्मिथ्यात्वं क्षपयति, ततोऽनेनैव क्रमेण सम्यक्त्वं क्षपयति / सम्यक्त्वस्य च चरमस्थितिखण्डे उत्कीर्णे सति असौ क्षपकः कृतकरण इत्युच्यते / अस्यां च कृतकरणाद्धायां वर्तमानः कश्चित् कालमपि कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते / लेश्यायामपि च पूर्व शुक्ललेश्यायामासीत् , सम्प्रत्यन्यतमस्यां गच्छति / तदेवं प्रस्थापको मनुष्यो निष्ठापकश्चतसृष्वपि गतिषु भवति / उक्तं च पंढवगो उ मणुस्सो, निट्ठवगो चउसु वि गईसु // ( ). ... इह यदि बद्धायुः क्षपकश्रेणिमारभतेऽनन्तानुबन्धिनां च क्षयादनन्तरं मरणसम्भवतो व्युपरमति, ततः कदाचिद् मिथ्यात्वोदयाद् भूयोऽप्यनन्तानुबन्धिन उपचिनोति, तद्वीजस्य मिथ्यात्वस्याविनाशात् / क्षीणमिथ्यादर्शनस्तु नोपचिनोति, बीजाभावात् / क्षीणसप्तकस्त्वप्रतिपतितपरिणामोऽवश्यं त्रिदशेषूत्पद्यते / प्रतिपतितपरिणामस्तु नानापरिणामसम्भवाद् यथापरिणाममन्यतमस्यां गतावुत्पद्यते / उक्तं च बैद्धाऊ पडिवन्नो, पढमकसायरक्खए जइ मरिज्जा / तो मिच्छत्तोदयओ, चिणिज भूओ न खीणम्मि // (विशेषा० गा० 1316) तम्मि मओ जाइ दिवं, तप्परिणामो य सत्तए खीणे / उवरयपरिणामो पुण, पच्छा नाणामइगईओ // (विशेषा० गा० 1317) बद्घायुष्कोऽपि यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न तु . चारित्रमोहनीयक्षपणाय यत्नमारभते / उक्तं च ____बैद्धाऊ पडिवन्नो, नियमा खीणम्मि सत्तए ठाइ / (विशेषा० गा० 1325) इति। आह परः-ननु मिथ्यादर्शनादिक्षये किमसावदर्शनो जायते ? उत न ? इति, उच्यतेसम्यग्दृष्टिरेवासौ / आह-ननु सम्यग्दर्शनपरिक्षये कुतः सम्यग्दृष्टित्वम् ? उच्यते—निर्मदनीकृतकोद्रवकल्पा अपनीतमिथ्यात्वभावा मिथ्यात्वपुद्गला एव सम्यग्दर्शनं तत्परिक्षये च तत्त्वश्रद्धानलक्षणपरिणामाप्रतिपातात् , प्रत्युत श्लक्ष्णाभ्रपटलापगमे चक्षुदर्शनवद् विशुद्धतरापत्तेः / ___यदाह भाष्यसुधाम्भोनिधिः 1 प्रस्थापकस्तु मनुष्यो निष्ठापकश्चतसृष्वपि गतिषु // 2 बद्धायुः प्रतिपन्नः प्रथमकषायक्षये यदि म्रियेत / तदा मिथ्यात्वोदयतश्चिनुयाद् भूयो न क्षीणे॥ तस्मिन् मृतो याति दिवं तत्परिणामश्च सप्तके क्षीणे / उपरतपरिणामः पुनः पश्चान्नानामतिगतीः / / 3 बद्धायुः प्रतिपन्नो नियमात् क्षीणे सप्तके तिष्ठति //