________________ 132 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः तत्थ णं जं पएसकम्मं तं नियमा वेएइ, तत्थ णं जं अणुभागकम्मं तं अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ" (..) इत्यादि। - ततश्च प्रदेशकर्मानुभावोदयस्येहोपशमो द्रष्टव्यः / आह—यद्येवं संयतस्यानन्तानुबन्ध्युदयतः कथं दर्शनविघातो न भवति ? इत्युच्यते—प्रदेशकर्मणो मन्दानुभावत्वात् / तथा कस्यचिदनुभागकर्मानुभावोऽपि नात्यन्तमपकाराय भवन् उपलभ्यते, यथा सम्पूर्णमत्यादिचतुर्ज्ञानिनस्तदावरणोदय इति / ततः सूक्ष्मलोभचरमकिट्युपशमे संज्वलनलोभ उपशान्तो भवति, तत्समयमेव च ज्ञानावरणपञ्चक-दर्शनावरणचतुष्का-ऽन्तरायपञ्चक-यशःकीर्ति-उच्चैर्गोत्राणां बन्धव्यवच्छेदः, ततोऽनन्तरसमयेऽसावुपशान्तकषायो भवति, स च जघन्येनैकं समयमात्रमुत्कर्षण त्वन्तर्मुहूर्त कालं यावत् , तत ऊर्ध्वं नियमादसौ प्रतिपतति / प्रतिपातश्च द्विधा-भवक्षयेण अद्धाक्षयेण च / तत्र भवक्षयो नियमाणस्य, अद्धाक्षय उपशान्ताद्धायां समाप्तायाम् / अद्धाक्षयेण च प्रतिपतन् यथैवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्ध-उदय-उदीरणा व्यवच्छिन्नास्तत्र तत्र पतता सता ते आरभ्यन्त इति यावत् / प्रतिपतंश्च तावत् प्रतिपतति यावत् प्रमत्तसंयतगुणस्थानकम् / कश्चित् पुनस्ततोऽप्यधस्तनं गुणस्थानकद्वयं याति, कोऽपि सास्वादनभावमपि / यः पुनर्भवक्षयेण प्रतिपतति स प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्तयतीति शेषः / उत्कर्षतश्चैकस्मिन् भवे द्वौ वारावुपशमश्रेणि प्रतिपद्यते / यश्च द्वौ वारावुपशमश्रेणिं प्रतिपद्यते तस्य नियमात् तस्मिन् भवे क्षपकश्रेण्यभावः / यः पुनरेकं वारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपि / उक्तं च सप्ततिकाचूर्णी जो दुवारे उवसमसेढिं पडिवज्जइ तस्स नियमा तम्मि भवे खवगसेढी नस्थि / जो इक्कसि उवसमसेढिं पडिवज्जइ तस्स खवगसेढी हुज्जा / ( ) इति / एष कार्मग्रन्थिकाभिप्रायः / सिद्धान्ताभिप्रायेण त्वेकस्मिन् भवे एकामेव श्रेणिं प्रतिपद्यते / उक्तं च कल्पाध्ययने ऐवं अप्परिवडिए, सम्मत्ते देवमणुयजम्मेसु / अन्नयरसेढिवजं, एगभवेणं च सवाई // (बृहत्कल्पभा० गा० 107) सर्वाणि सम्यक्त्व-देशविरत्यादीनि / अन्यत्राप्युक्तम् मोहोपशम एकस्मिन् , भवे द्विः स्यादसन्ततः। यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न // ( ) इति // 98 // तदेवमभिहिता सप्रपञ्चमुपशमश्रेणिः / सम्प्रति क्षपकश्रेणिमभिधित्सुराह अण मिच्छ मीस सम्म, तिआउइगविगलथीणतिगुजोयं / तिरिनरयथावरदुगं, साहारायवअडनपुत्थी // 99 // इह क्षपकश्रेणिप्रतिपत्ता मनुष्यो वर्षाष्टकस्योपरि वर्तमानोऽविरतादीनामन्यतमोऽत्यन्तवि 1 मुद्रि० °क्षयो भवक्षयेण म्रिय // 2 यो द्वौ वारौ उपशमश्रेणिं प्रतिपद्यते तस्य नियमात् तस्मिन् भवे क्षपकश्रेणिर्नास्ति / यः सकृदेवोपशमश्रेणिं प्रतिपद्यते तस्य क्षकश्रेणिः भवेत् // 3 एवमपरिपतिते सम्यक्त्वे देवमनुजजन्मनोः। अन्यतरश्रेणिवर्जमेकभवेन च सर्वाणि (प्रतिपद्यते) //