________________ 130 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथाः भयाद नोच्यते, केवलं विशेषार्थिना कर्मप्रकृतिटीका मिरीक्षितव्या। अन्तरकरणं च कृत्वा ततो नपुंसकवेदमन्तर्मुहूर्तमात्रेणोपशमयति, ततोऽन्तर्मुहूर्तमात्रेण स्त्रीवेदम् ,ततोऽन्तर्मुहूर्तमात्रेण हास्यादिषट्कम् , तस्मिंश्योपशान्ते तस्मिन्नेव समये पुरुषवेदस्य बन्ध-उदय-उदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन पुरुषवेदमुपशमयति / ततो युगपदन्तर्मुहूर्तमात्रेणाप्रत्याख्यानावरण-प्रत्याख्यानावरणक्रोधावुपशमयति, तदुपशान्तौ च तत्समयमेव संज्वलनक्रोधोदय-उदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन संज्वलनक्रोधमुपशमयति / ततोऽन्तर्मुहूर्तमात्रेणाऽप्रत्याख्यानावरण-प्रत्यख्यानावरणमानौ युगपदुपशमयति, तदुपशान्तौ च तत्समयमेव संज्वलनमानस्य बन्धउदय-उदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन संज्वलनमानमुपशमयति / ततो युगपदन्तर्मुहूर्तमात्रेणाऽप्रत्याख्यानावरण-प्रत्याख्यानावरणमाये उपशमयति, तदुपशान्तौ च तत्समयमेव संज्वलनमायाया बन्ध-उदय-उदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन संज्वलनमायामुपशमयति / ततो युगपदप्रत्याख्यानावरण-प्रत्याख्यानावरणलोभावुपशमयति, तत्समयमेव संज्वलनलोभस्य बन्ध-उदय-उदीरणाव्यवच्छेदः, ततः संज्वलनलोभमुपशमयंस्त्रिधा करोति, द्वौ भागौ युगपदुपशमयति, तृतीयभागं सङ्ख्येयखण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति, पुनः सङ्ख्येयानां खण्डानां किट्टीत्यपरपर्यायाणां चरमखण्डमसङ्ख्येयानि खण्डानि सूक्ष्मकिट्टीत्यपरपर्यायाणि करोति, ततः समये समये एकैकं खण्डमुपशमयतीति / इह च दर्शनसप्तके उपशान्ते निवृत्तिबादरोऽभिधीयते, तत ऊर्ध्वमनिवृत्तिबादरो यावद् लोभस्यासङ्घयेयान्तिमचरमखण्डमिति / प्ररूपिता मोहनीयस्याष्टाविंशतिभेदभिन्नस्याप्युपशमना / सम्प्रति गाथार्थो वित्रियतेइहोपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव / अन्ये तु प्रतिपादयन्ति-अविरत-देशविरतप्रमत्ता-ऽप्रमत्तसंयतानामन्यतम इति / श्रेणिपरिसमाप्तौ चाविरत-देशविरत-प्रमत्ता-अमत्तसंयतानामन्यतमो भवति / स च प्रथमं युगपत् "अण" त्ति अनन्तानुबन्धिनः क्रोध-मान-मायालोभानुपशमयति / ततो दर्शनं दर्शस्तं दर्श-मिथ्यात्व-सम्यग्मिथ्यात्व-सम्यग्दर्शनं युगपदुपशमयति / ततोऽनुदीर्णमपि नपुंसकवेदम् / यदि पुरुषः प्रारम्भकस्ततः प्रथमं नपुंसकवेदम्, ततः पश्चात् स्त्रीवेदम् , ततः 'षट्कं' हास्य-रति-अरति-शोक-भय-जुगुप्सालक्षणम् , ततः पुरुषवेदम् ; अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदम् , ततः पुरुषवेदम् , ततः षट्कम् , ततः स्त्रीवेदमिति; अथ नपुंसक एव प्रारम्भकस्ततोऽसावनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति, ततः पुरुषवेदम् , ततः षट्कम् , ततो नपुंसकवेदमिति / पुनश्च द्वौ द्वौ क्रोधाद्यौ 'एकान्तरितौ' संज्वलनविशेषक्रोधाद्यन्तरितौ 'सदृशौ' तुल्यावुपशमयति / अयमर्थः-अप्रत्याख्यानावरणप्रत्याख्यानावरणक्रोधौ सदृशौ क्रोधत्वेन युगपद् उपशमयति, ततः संज्वलनक्रोधमेकाकिनम्; ततोऽप्रत्याख्यानावरण-प्रत्याख्यानावरणमानौ युगपदुपशमयति, ततः संज्वलनमानम् ; ततोऽप्रत्याख्यानावरण-प्रत्याख्यानावरणमाये युगपदुपशमयति, ततः संज्वलनमायाम् ; ततोऽप्रत्याख्यानावरणप्रत्याख्यानावरणलोभौ युगपदुपशमयति, ततः संज्वलनलोभमिति / स्थापना चेयम् 1 सं. 1-2 त० म० छा० °णक्रोधौ तदु° //