________________ 98 शतकनामा पञ्चमः कर्मग्रन्थः। 129 बृहच्छसकबृहचूर्णावप्युक्तम् उवसमसम्मदिट्ठी, अंतरकरणे ठिो कोइ // देसविरई पि लहेइ, कोह पमत्तापमत्तभावं पि / सासायणो पुण न कि पि लहेइ / ( ) इति / ततो देशविरत-प्रमत्ता-प्रमत्तसंयतेष्वपि मिथ्यात्वमुपशान्तं लभ्यते / सम्प्रति वेदकसम्यग्दृष्टस्त्रयाणामपि दर्शनमोहनीयानामुपशमनाविधिरुच्यते-इह वेदकसम्यग्दृष्टिः संयमे वर्तमानः सन् अन्तर्मुहूर्तमात्रेण कालेन दर्शनत्रितयमुपशमयति, उपशमयतश्च करणत्रिकादिविधिर्यथा कर्मप्रकृतिटीकायां तथा वेदितव्यः / एवमुपशान्तदर्शनमोहनीयत्रिकश्चारित्रमोहनीयमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि करोति। करणानां च स्वरूपं प्राग्वत् / केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके द्रष्टव्यम्, अपूर्वकरणमपूर्वकरणगुणस्थानके, अनिवृत्तिकरणमनिवृत्तिबादरसम्परायगुणस्थानके / अत्रापि स्थितिपातादयः पूर्ववदेव प्रवर्तन्ते / नवरमिह सर्वासामशुभप्रकृतीनामबध्यमानानां गुणसङ्क्रमः प्रवर्तते इति वक्तव्यम् / अपूर्वकरणद्धायाश्च सङ्ख्थेयतमे भागे गते सति निद्रा-प्रचलयोर्बन्धव्यवच्छेदः। ततः प्रभूतेषु स्थितिखण्डसहस्रेषु गतेषु सत्सु अपूर्वकरणाद्धायाः सङ्ख्यया भागा गता भवन्ति एकोऽवशिष्यते / अत्र चान्तरे देवगतिदेवानुपूर्वी-पञ्चेन्द्रियजाति-वैक्रियशरीर-वैक्रियाङ्गोपाङ्गा-ऽऽहारकशरीरा-ऽऽहारकाङ्गोपाङ्ग-तैजसकार्मण-समचतुरस्र-वर्णचतुष्का-ऽगुरुलघु-उपघात-पराघात-उच्छ्वास-त्रस-बादर-पर्याप्त प्रत्येक-प्रशस्तविहायोगति-स्थिर-शुभ-सुभग सुस्वरा-ऽऽदेय-निर्माण-तीर्थकरसंज्ञितानां त्रिंशतः प्रकृतीनां बन्धव्यवच्छेदः / ततः स्थितिखण्डपृथक्त्वे गते सति अपूर्वकरणाद्धायाश्चरमसमये हास्य-रतिभय-जुगुप्सानां बन्धव्यवच्छेदः, हास्य-रति-अरति-शोक-भय-जुगुप्सानामुदयव्यवच्छेदः, सर्वकमणां देशोपशमना-निधत्ति-निकाचनाकरणव्यवच्छेदश्च / ततोऽनन्तरसमयेऽनिवृत्तिकरणे प्रविशति, तत्रापि स्थितिघातादीनि पूर्ववत् करोति / ततोऽनिवृत्तिकरणाद्धायाः सङ्ख्येयेषु भागेषु गतेषु सत्सु दर्शनसप्तकशेषाणामेकविंशतिमोहनीयप्रकृतीनामन्तरकरणं करोति / तत्र चतुर्णा संज्वलनानामन्यतमस्य वेद्यमानस्य संज्वलनस्य त्रयाणां च वेदानामन्यतमस्य वेद्यमानस्य वेदस्य प्रथमा स्थितिः स्वोदयकालप्रमाणा, शेषाणां त्वेकादशकषायाणामष्टानां च नोकषायाणामावलिकामात्रम् / स्वोदयकालप्रमाणं च चतुर्णा संज्वलनानां त्रयाणां च वेदानामिदम्-स्त्रीवेद-नपुंसकवेदयोरुदयकालः सर्वस्तोकः, स्वस्थाने च परस्परं तुल्यः, ततः पुरुषवेदस्य सङ्ख्येयगुणः, ततः संज्वलनक्रोधस्य विशेषाधिकः, ततः संज्वलनमानस्य विशेषाधिकः, ततः संज्वलनमायाया विशेपाधिकः, ततः संज्वलनलोभस्य विशेषाधिकः / इहानिवृत्तिकरणे बहु वक्तव्यं, तत्तु ग्रन्थगौरव औपशमिकसम्यग्दृष्टिरन्तरकरणे स्थितः कोऽपि // देशविरतिमपि लभते कोऽपि प्रमत्ताप्रमत्तभाव'मपि / सास्वादनः पुनर्न किमपि लभते // 17