________________ 128 देवेन्द्रसूरिविरचितः स्वोपज्ञदीकोपेतः [गाथा: रसपात-स्थितिबन्ध-गुणश्रेणय एव वक्तव्याः / गुणश्रेणिदलिकरचनाऽप्युदयसमयादारभ्य वेदितव्या / ततोऽनिवृत्तिकरणेऽप्येवं वक्तव्यम् / अनिवृत्तिकरणाद्धायाश्च सोयेषु भागेषु गतेषु सासु एकस्मिन् सङ्ख्येयतमे भागेऽवतिष्ठमानेऽन्तमहूर्तमात्रमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणमन्तमुहूर्तप्रमाणं प्रथमस्थितेः किश्चित् समधिकं न्यूनं वाऽभिनवस्थितिबन्धाद्धासमेनान्तर्मुहर्तेन कालेन करोति / अन्तरकरणसत्कं च दलिकमुत्कीर्य प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति / प्रथमस्थितौ च वर्तमान उदीरणाप्रयोगेण यत् प्रथमस्थितिगतं दलिकं समाकृष्य उदये प्रक्षिपति सा उदीरणा, यत् पुनर्द्वितीयस्थितेः सकाशाद उदीरणाप्रयोगेणैव दलिकं समाकृष्य उदये प्रक्षिपति सा उदीरणाऽपि पूर्वसूरिभिर्विशेषप्रतिपत्त्यर्थमागाल इत्युच्यते / उदय-उदीरणाभ्यां च प्रथमस्थितिमनुभवन् तावद् गतो यावदावलिकाद्विकं शेषं तिष्ठति, तस्मिंश्च स्थिते आगालो व्यवच्छिद्यते। तत उदीरणैव केवला प्रवर्तते, साऽपि तावद् यावदावलिकाशेषो न भवति / आवलिकायां तु शेषीभूतायामुदीरणाऽपि निवर्तते, ततः केवलेनैवोदयेनावलिकामात्रमनुभवति / आवलिकामात्रचरमसमये च द्वितीयस्थितिगतं दलिकमनुभागभेदेन त्रिधा करोति / तद्यथा-सम्यक्त्वं सम्यग्मिथ्यात्वं मिथ्यात्वं चेति / उक्तं च कर्मप्रकृतिचूर्णी चरमसमयमिच्छद्दिट्ठी सेकाले उवसमसम्मट्टिी होहिई ताहे बिइयठिई तिहाणुभागं करेइ / तं जहा—सम्मत्तं सम्मामिच्छत्तं मिच्छत्तं च / ( ) इति / स्थापना- 1000 / ततोऽनन्तरसमये मिथ्यात्वस्योदयाभावाद् औपशमिकं सम्यक्त्वमवामोति / उक्तं च कर्मप्रकृती मिच्छत्तुदए खीणे, लहए सम्मत्तमोवसमियं सो। लंभेण जस्स रुब्भइ, आयहियमलद्धपुवं जं // (गा० 330) अन्यत्राप्युक्तम् जात्यन्धस्य यथा पुंसश्चक्षुर्लाभे शुभोदये। सदर्शनं तथैवास्य, सम्यक्त्वे सति जायते // ( ) आनन्दो जायतेऽत्यन्तं, सात्त्विकोऽस्य महात्मनः / . सद्ध्याध्यपगमे यद्वद्व्याधितस्य सदौषधात् // ( ) एष च प्रथमसम्यक्त्वलाभो मिथ्यात्वस्य सर्वोपशमनाद् भवति / उक्तं च सम्मत्तपढमलंभो, सधोवसमा-(कर्मप्र० गा० 335) इति / सम्यक्त्वं चेदं प्रतिपद्यमानः कश्चिद् देशविरतिसहितं प्रतिपद्यते, कश्चित् सर्वविरतिसहितम् / उक्तं च पश्वसङ्ग्रहे सम्मत्तेणं समगं, सर्व देसं च को वि पडिवज्जे / (गा० 760) १चरमसमयमिथ्यादृष्टिरेष्यत्काले औपशमिकसम्यग्दृष्टिभविष्यति तदा द्वितीय स्थितिं विधानुभागं करोति / तद्यथा-सम्यक्त्वं सम्यग्मिथ्यात्वं मिथ्यात्वं च // 2 मिथ्यात्वोदये क्षीणे लभते सम्यक्त्वमौपशमिकं सः / लामेन यस्य लभ्यत आत्महितमलब्धपूर्व यत् // 3 सम्यक्त्वप्रथमलाभः सर्वोपशमात् // 4 सम्यक्त्वेन समझ सर्व देशं च कोऽपि प्रतिपद्यते॥