________________ 98] शतकनामा पञ्चमः कर्मग्रन्थः / 127 सङ्क्रमेण सङ्गमयति / अन्तरकरणे कृते सति द्वितीयसमयेऽनन्तानुबन्धिनामुपरितनस्थितिगतं दलिकमुपशमयितुमारभते / तद्यथा-प्रथमसमये स्तोकमुपशमयति, द्वितीयसमयेऽसझयेयगुणम् , तृतीयसमयेऽसङ्ख्येयगुणम् , एवं यावदन्तर्मुहूर्त कालम् / एतावता च कालेन साकल्यतोऽनन्तानुबन्धिन उपशमिता भवन्ति / उपशमिता नाम-यथा रेणुनिकरः सलिलबिन्दुनिवहैरभिषिच्य अभिषिच्य द्रुघणादिभिर्निष्कुट्टितो निःस्पन्दो भवति, तथा कर्मरेणुनिकरोऽपि विशोधिसलिलप्रवाहेण परिषिच्य परिषिच्य अनिवृत्तिकरणरूपद्रुघणनिष्कुट्टितः सङ्क्रमण-उदय-उदीरणा-निधत्ति-निकाचनकरणानामयोग्यो भवति / तदेवमेकेषामाचार्याणां मतेनानन्तानुबन्धिनामुपशमनाऽभिहिता / ____अन्ये त्वाचक्षते-अनन्तानुबन्धिनामुपशमना न भवति, किन्तु विसंयोजनैव / विसंयोजना-क्षपणा / सा चैवम्-इह श्रेणिमप्रतिपद्यमाना अपि अविरता विरताश्चतुर्गतिका अपि / तद्यथा-नारका देवा अविरतसम्यग्दृष्टयः, तिर्यञ्चोऽविरतसम्यग्दृष्टयो देशविरता वा, मनुजा अविरतसम्यग्दृष्टयो देशविरताः सर्वविरता वा अनन्तानुबन्धिनां विसंयोजनार्थ यथाप्रवृत्त्यादीनि त्रीणि करणानि कुर्वन्ति / करणवक्तव्यता सर्वाऽपि प्राग्वत् / नवरमिहानिवृत्तिकरणे प्रविष्टः सन् अन्तरकरणं न करोति / उक्तं च कर्मप्रकृती चउगइया पजत्ता, तिन्नि वि संजोयणे विजोयंति। करणेहिं तीहिं सहिया, नंतरकरणं उवसमो वा // (गा० 343) अस्या अक्षरगमनिका—'चतुर्गतिकाः' नारक-तिर्यङ्-मनुष्य-देवाः सर्वाभिः पर्याप्तिभिः पर्याप्ताः 'त्रयोऽपि' अविरत-देशविरत-सर्वविरताः। तत्राविरतसम्यग्दृष्टयश्चतुर्गतिकाः, देशविरतास्तियञ्चो मनुष्या वा, सर्वविरता मनुष्या एव / 'संयोजनान्' अनन्तानुबन्धिनः 'विसंयोजयन्ति' विनाशयन्ति / किंविशिष्टाः सन्तः ? इत्याह-'करणैस्त्रिभिः' यथाप्रवृत्ता-पूर्वकरणा-ऽनिवृत्तिबादरैः सहिताः। नवरमिहान्तरकरणं न वक्तव्यम् , उपशमो वा, उपशमश्वानन्तानुबन्धिनां न भवतीत्यर्थः // किन्तु कर्मप्रकृत्यभिहितस्वरूपेणोद्वलनासक्रमेणाधस्तादावलिकामानं मुक्त्वा उपरि निरवशेषाननन्तानुबन्धिनो विनाशयति, आवलिकामात्रं तु स्तिबुकसङ्क्रमेण वेद्यमानासु प्रकृतिषु समयति / ___ तदेवमुक्ताऽनन्तानुबन्धिनां विसंयोजना / सम्प्रति दर्शनत्रिकस्योपशमना भण्यते-तत्र मिथ्यात्वस्योपशमना मिथ्यादृष्टेवेदकसम्यग्दृष्टेश्च, सम्यक्त्व-सम्यग्मिथ्यात्वयोस्तु वेदकसम्यग्दृष्टेरेव / तत्र मिथ्यादृष्टेमिथ्यात्वोपशमना प्रथमं सम्यक्त्वमुत्पादयतः, सा चैवम्-पञ्चेन्द्रियः संज्ञी सर्वाभिः पर्याप्तिभिः पर्याप्तः करणकालात् पूर्वमप्यन्तर्मुहूर्त कालं प्रतिसमयमनन्तगुणवृद्धया विशुद्ध्या प्रवर्धमानोऽभव्यसिद्धिकविशुद्ध्यापेक्षयाऽनन्तगुणविशुद्धिको मति-श्रुताज्ञान-विभङ्गज्ञानानामन्यतमस्मिन् साकारोपयोगे उपयुक्तोऽन्यतमस्मिन् योगे वर्तमानो जघन्यपरिणामेन तेजोलेश्यायां मध्यमपरिणामेन पद्मलेश्यायामुत्कृष्टपरिणामेन शुक्ललेश्यायां वर्तमानो मिथ्यादृष्टिश्चतुर्ग'तिकोऽन्तःसागरोपमकोटीकोटीस्थितिसत्कर्मा इत्यादि पूर्वोक्तं तावद् वाच्यं यावद् यथाप्रवृत्तिकरणमपूर्वकरणं च परिपूर्ण भवति / नवरमिहापूर्वकरणे गुणसङ्कमो न वक्तव्यः, किन्तु स्थितिघात