________________ 126 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः - रसघातो नाम-अशुभप्रकृतीनां यदनुभागसत्कर्म तस्यानन्ततमं भागं मुक्त्वा शेषाननुभागभागानन्तर्मुहूर्तेन कालेनाशेषानपि विनाशयति, ततः पुनरपि तस्य प्राङ्मुक्तस्यानन्ततमभागस्यानन्ततमं भागं मुक्त्वा शेषाननुभागभागानन्तर्मुहूर्तेन कालेन विनाशयति, एवमनेकान्यनुभागखण्डसहस्राण्येकस्मिन् स्थितिखण्डे व्यतिक्रामन्ति, तेषां च स्थितिखण्डानां सहस्रैरपूर्वकरणं परिसमाप्यते। गुणश्रेणिर्नाम-अन्तर्मुहूर्तप्रमाणानां स्थितीनामुपरि याः स्थितयो वर्तन्ते तन्मध्याद् दलिकं गृहीत्वा उदयावलिकाया उपरितनीषु स्थितिषु प्रतिसमयमसङ्ख्येयगुणतया निक्षिपति, तद्यथाप्रथमसमये स्तोकम् , द्वितीयसमयेऽसङ्ख्येयगुणम् , तृतीयसमयेऽसङ्ख्येयगुणम् , एवं तावद् नेयं यावदन्तर्मुहूर्तचरमसमयः; तच्चान्तर्मुहूर्तमपूर्वकरणा-ऽनिवृत्तिकरणकालाभ्यां मनागतिरिक्तं वेदितव्यम् / एष प्रथमसमयगृहीतदलिकस्य निक्षेपविधिः / एवं द्वितीयादिसमयगृहीतानामपि दलिकानां निक्षेपो वक्तव्यः / अन्यच्च-गुणश्रेणिरचनाय प्रथमसमये यद् दलिकं गृह्यते तत् स्तोकम् , ततोऽपि द्वितीयसमयेऽसद्ध्येयगुणम् , ततोऽपि तृतीयसमयेऽसङ्ख्येयगुणम् , एवं तावद् नेयं यावद् गुणश्रेणिकरणचरमसमयः / अपूर्वकरणसमयेषु अनिवृत्तिकरणसमयेषु चानुभवतः क्रमशः क्षीयमाणेषु गुणश्रेणिदलिकनिक्षेपः शेषे शेषे भवति उपरि च न वर्धत इति / तथा गुणसक्रमो नाम-अपूर्वकरणस्य प्रथमसमयेऽनन्तानुबन्ध्यादीनामशुभप्रकृतीनां यद् दलिकं परप्रकृतिषु समयति तत् स्तोकम् , ततो द्वितीयसमये परप्रकृतिषु सङ्गम्यमाणमसोयगुणम्, ततोऽपि तृतीयसमयेऽसङ्ख्येयगुणम् , एवं तावद् वक्तव्यं यावच्चरमसमयः / ___तथाऽन्यः स्थितिबन्धो नाम-अपूर्वकरणस्य प्रथमसमयेऽन्य एवापूर्वः स्तोकः स्थितिबन्ध आरभ्यते / स्थितिबन्ध-स्थितिघातौ युगपदारभ्येते युगपदेव च निष्ठां यातः / एवमेते पञ्च पदार्था अपूर्वकरणे प्रवर्तन्ते / / ___ व्याख्यातमपूर्वकरणम् / इदानीमनिवृत्तिकरणमुच्यते-अनिवृत्तिकरणं नाम-यत्र प्रविष्टानां सर्वेषामपि तुल्यकालानामेकमेवाध्यवसायस्थानम् / तथाहि-अनिवृत्तिकरणस्य प्रथमसमये ये वर्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषां सर्वेषामप्येकरूपमेवाध्यवसायस्थानम् , द्वितीयसमयेऽपि ये वर्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषामपि सर्वेषामेकरूपमध्यवसायस्थानम् , नवरं प्रथमसमयभाविविशोधिस्थानापेक्षयाऽनन्तगुणम्, एवं तावद् वाच्यं यावदनिवृत्तिकरणचरमसमयः / अत एवास्मिन् करणे प्रविष्टानां तुल्यकालानामसुमतां सम्बन्धिनामध्यवसायस्थानानां परस्परं निवृत्तिः व्यावृत्तिर्न विद्यत इत्यनिवृत्तिकरणमिति नाम / अस्मिंश्वानिवृत्तिकरणे यावन्तः समयास्तावन्त्यध्यवसायस्थानानि पूर्वस्मात् पूर्वस्मादनन्तगुणवृद्धानि / एतानि च मुक्तावलीसंस्थानेन स्थापयितव्यानि-2000 | अत्रापि च प्रथमसमयादेवारभ्य पूर्वोक्ताः पञ्च पदार्था युगपत् प्रवर्तन्ते / अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु सत्सु एकस्मिन् भागेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादावलिकामानं मुक्त्वाऽन्तर्मुहूर्तप्रमाणमन्तरकरणमभिनवस्थितिबन्धाद्धासमेनान्तर्मुहूर्तप्रमाणेन कालेन करोति, अन्तरकरणसत्कं च दलिकमुत्कीर्यमाणं परप्रकृतिषु बध्यमानास प्रक्षिपति, प्रथमस्थितिगतं च दलिकमावलिकामानं वेद्यमानासु परप्रकृतिषु स्तिबुक