________________ 118 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथाः असङ्ख्येयलोकाकाशप्रदेशतुल्यैरेव वीर्यभागैरधिकास्तत्प्रदेशाः प्राप्यन्ते, अतस्तेनैव क्रमेण तृतीयस्पर्धकमारभ्यते, पुनस्तेनैव क्रमेण चतुर्थम्, पुनः पञ्चममित्येवमेतान्यपि वीर्यस्पर्धकानि श्रेण्यसवयेयभागवर्तिप्रदेशराशिप्रमाणानि वाच्यानि / एषां चैतावतां स्पर्धकानां समुदाय एकं योगस्थानकमुच्यते / इदं तावदेकस्य सूक्ष्मनिगोदस्य भवाघसमये सर्वजघन्यवीर्यस्य योगस्थानकममिहितम् / तदन्यस्य तु किञ्चिदधिकवीर्यस्य जन्तोरनेनैव क्रमेण द्वितीयं योगस्थानकमुत्तिष्ठते, तदन्यस्य तु तेनैव क्रमेण तृतीयम् , तदन्यस्य तु तेनैव क्रमेण चतुर्थमित्यमुना क्रमेणैतान्यपि योगस्थानानि नानाजीवानां कालभेदेन एकजीवस्य वा श्रेणेरसोयभागवर्तिनभःप्रदेशराशिप्रमापानि भवन्ति / ननु जीवानामनन्तत्वात् तद्भेदाद् योगसामान्यमन्तानि फस्माद् न भवन्ति ? नैतदेवम् , यत एकैकस्मिन् सदृशे योगस्थानेऽनन्ताः स्थावरजीचा वर्तन्ते, त्रसास्त्वेकैकस्मिन् सदृशे योगस्थानेऽसख्याता वर्तन्ते, तेषां च तदेकैकमेव विवक्षितम् , अतो विसदृशानि यथोक्तमानान्येव योगस्थानकानि भवन्ति / तथाऽपर्याप्ताः सर्वेऽप्येकैकस्मिन् योगस्थानके एकसमयमेवावतिष्ठन्ते, ततः परमसाझ्येयगुणवृद्धेषु प्रतिसमयमभ्याऽन्ययोगस्थानकेषु सामन्ति / पर्याप्तास्तु सर्वेऽपि . स्वप्रायोग्ये सर्वजघन्ययोगस्थानके जघन्यतः समयमुत्कृष्टतश्चतुरः समयान् यावद् वर्तन्ते, ततः परमन्यद् योगस्थानकमुपजायते / स्वप्रायोग्योत्कृष्टयोगस्थानकेषु तु जघन्यतः समयम् , उत्कृष्टतस्तु द्वौ समयौ, मध्यमेषु जघन्यतः समयम् उत्कृष्टतस्तु कचित् त्रीन् क्वचिञ्चतुरः कचित् पञ्च कचित् षट् क्वचित् सप्त कचिदष्टौ समयान् यावद् वर्तन्ते इति / अयं चैतावानपि योगो मनःप्रभृतिसहकारिकारणवशात् संक्षिप्य सत्यमनोयोगा-ऽसत्यमनोयोग-सत्यमृषामनोयोगा-ऽसत्यमृषामनोयोगसत्यवाग्योगा- सत्यवाम्योग-सत्यमृषावाग्योगा-ऽसत्यमृषावाम्योग-औदारिककाययोग-औदारिकमिश्रकाययोग-चैक्रियकाययोग-वैक्रियमिश्रकाययोगा-ऽऽहारककाययोगा-ऽऽहारकमिश्रकाययोगकार्मणकाययोगभेदतः पञ्चदशधा प्रोक्तः, इत्यलं प्रसङ्गेन / एतेभ्यश्च योगस्थानेभ्यः 'अङ्येयगुणाः' असङ्ख्यातगुणिताः “पयडि" त्ति भेदशब्दस्य प्रत्येकं सम्बन्धात् प्रकृत्तिभेदाः-ज्ञानावरणादीनां भेदाः / “असंखगुण" ति पदमनुभागबन्धस्थानानि यावत् सर्वत्र योजनीयम् / इयमत्र भावना-इह तावदावश्यकादिष्ववधिज्ञान-दर्शनयोः क्षयोपशमवैचित्र्यादसङ्ख्यातास्ताव भेदा भवन्ति, ततश्चैतदावरणबन्धस्यापि तावत्प्रमाणा भेदाः सजछन्से, वैविध्येण बद्धस्यैव विचित्रक्षयोपशमोपपसेरिति / कथं पुनः क्षयोपशमवैचित्र्येऽप्यस मेयमेदत्वं प्रतीयते ? इति चेद् उच्यते-क्षेत्रतारतम्येनेति / तथाहि-त्रिसमयाहारकसूक्ष्मपनकासवाचगाहनामानं जघन्यमवधिद्विकस्य क्षेत्रं परिच्छेद्यतयोक्तम् / यदाह सकलश्रुतपारदृश्वा विश्वामुग्रहकाग्यया विहितानेकशालसन्दर्भो भगवाम् श्रीभद्रबाहुखामी-- जावइया सिसमयाहारगस्स सुहुमस्स पणगजीवस्स / ओगाहणा जहन्ना, ओहीखेत्तं जहन्नं तु // ( आव०नि० गा० 30) 1 सं० 1-2 त० छा० म० °नके तु ज° // 1 यावती त्रिसमयाहारकस्य सूक्ष्मस्य पनकजीवस्य / अवगाहना जघन्या अवधिक्षेत्रं जघन्यं तु॥