________________ शतकनामा पञ्चमः कर्मग्रन्थः। 117 सेढिअसंखिळसे, जोगहाणाणि पयडिठिइभेया। ठिइबंधज्झवसायाणुभागठाणा असंखगुणा // 95 // योगः-वीर्यं तस्य स्थानानि वीर्याविभागांशसङ्घातरूपाणि / कियन्ति पुनस्तानि भवन्ति ? इत्याह-"सेढिअसंखिजंसे" त्ति श्रेणेः असङ्ख्येयांशः श्रेण्यसङ्ख्येयांशः / एतदुक्तं भवति-श्रेणेवक्ष्यमाणरूपाया असङ्ख्येयभागे यावन्त आकाशप्रदेशा भवन्ति तावन्ति योगस्थानानि, एतानि चोत्तरपदापेक्षया सर्वस्तोकानीति शेषः / तत्र यथैतानि योगस्थानानि भवन्ति तथोच्यते-इह किल सूक्ष्मनिगोदस्यापि सर्वजघन्यवीर्यलब्धियुक्तस्य प्रदेशाः केचिदल्पवीर्ययुक्ताः, केचित्तु बहुबहुतर-बहुतमवीर्योपेताः / तत्र सर्वजघन्यवीर्ययुक्तस्यापि प्रदेशस्य सम्बन्धि वीर्य केवलिप्रज्ञाच्छेदेन च्छिद्यमानमसङ्ख्येयलोकाकाशप्रदेशप्रमाणान् भागान् प्रयच्छति, तस्यैवोत्कृष्टवीर्ययुक्ते प्रदेशे यद् वीर्य तदेतेभ्योऽसङ्ख्येयगुणान् भागान् प्रयच्छति / उक्तं च - पन्नाए छिज्जंता, असंखलोगाण जत्तिय पएसा / तत्तिय वीरियभागा, जीवपएसम्मि एक्कक्के / सवजहन्नगविरिए, जीवपएसम्मि ऐत्तिया संखा। तत्तो असंखगुणिया, बहुविरिए जियपएसम्मि // (शत० बृ० भा० गा० 998-99) भागा अविभागपलिच्छेदा इति चानान्तरम् / ततः सर्वस्तोकाविभागपलिच्छेदकलितानां लोकासङ्ख्येयभागवर्त्यसङ्ख्येयप्रतरप्रदेशराशिसङ्ख्यानां जीवप्रदेशानां समानवीर्यपलिच्छेदतया जघन्यैका वर्गणा, तत एकेन योगपलिच्छेदेनाधिकानां तावतामेव जीवप्रदेशानां द्वितीयवर्गणा, एवमेकैकयोगपलिच्छेदवृद्ध्या वर्धमानानां जीवप्रदेशानां समानजातीयरूपा घनीकृतलोकाकाशश्रेणेरसङ्ख्येयभागप्रदेशराशिप्रमाणा वर्गणा वाच्याः / एताश्चैतावत्योऽप्यसत्कल्पनया षट् स्थाप्यन्ते। 15141 तत्र जघन्यवर्गणायां जीवप्रदेशा असङ्ख्येयवीर्यभागान्विता अप्यसत्कल्पनया दश३१३ भागान्विताः स्थाप्यन्ते / ते चै जीवप्रदेशा एकैकस्यां वर्गणायामसङ्ख्येयप्रतरप्रदेhoad शमाना अप्यसत्कल्पनया त्रयस्त्रयः स्थाप्यन्ते / एताश्चैतावत्यः समुदिता एकं वीर्यस्पर्धकमित्युच्यते / अथ स्पर्धक इति कः शब्दार्थः ? उच्यते-एकैकोत्तरवीर्यभागवृद्ध्या परस्परं स्पर्धन्ते वर्गणा यत्र तत् स्पर्धकम् / तत ऊर्ध्वमेकेन व्यादिभिर्वा वीर्यपलिच्छेदैरधिका जीवप्रदेशा न प्राप्यन्ते, किं तर्हि ? प्रथमस्पर्धकचरमवर्गणायां जीवप्रदेशेषु यावन्तो वीर्यपलिच्छेदास्तेभ्योऽसङ्ख्येयलोकाकाशप्रदेशप्रमाणैरेव वीर्यपलिच्छेदैरधिका जीवप्रदेशा लभ्यन्ते, अतस्तेषामपि समानवीर्यभागानां समुदायो द्वितीयस्पर्धकस्याद्यवर्गणा / तत एकेन वीर्यभागेनाधिकानां समुदायो द्वितीया वर्गणा, एवमेकोत्तरवृद्धिक्रमेणैता अपि श्रेण्यसङ्ख्येयभागवर्तिप्रदेशराशिमाना वाच्याः। एतासामपि समुदायो द्वितीयं स्पर्धकम् / इत ऊर्ध्वं पुनरप्येकोत्तरवृद्धिर्न लभ्यते, किं तर्हि ? 1 प्रज्ञया च्छिद्यमाना असङ्ख्यलोकानां यावन्तः प्रदेशाः / तावन्तो वीर्यभागा जीवप्रदेशे एकैकस्मिन् // सर्वजघन्यकवीर्ये जीवप्रदेशे यावती सङ्ख्या / ततोऽसङ्ख्यगुणिता बहुवीर्ये जीवप्रदेशे // 2 सं०१-२-त०म० छा० मुद्रि० तत्ति० // 3 सं० १-२-छा० त० म० च प्रदे० / /