________________ शतकनामा पञ्चमः कर्मग्रन्थः / 119 उत्कृष्टं तु सर्वबहुतैजस्कायिकजन्तूनां शूचिः सर्वतो भ्रमिता यावन्मानं क्षेत्रं स्पृशति तावन्मानं तस्य प्रमाणं भवति / यदाहुः श्रीमदाराध्यपादा: सबबहुअगणिजीवा, निरंतरं जत्तियं भरिज्जंसु / खेत्तं सघदिसागं, परमोहीखेत्त निद्दिवो // (आय० नि० गा० 31) इति / ' ततो जघन्यात् क्षेत्रादारभ्य प्रदेशवृद्ध्या प्रवृद्धोत्कृष्टक्षेत्रविषयत्वे सत्यसङ्ख्येयभेदत्वमवधिद्विकस्य क्षेत्रतारतम्येन भवति, अतस्तदावारकस्यावधिद्विकस्यापि नानाजीवानां क्षेत्रादिमेदेन बन्धवैचित्र्याद् उदयवैचिघ्यावाऽसयेयगुणभेदत्वम् / एवं नानाजीवानाश्रित्य मतिज्ञानावरणादीनां शेषाणामप्यावरणानां तथाऽन्यासामपि सर्वासां मूलप्रकृतीनामुतरप्रकृतीनां च क्षेत्रादिभेदेन बन्धवैचिच्याद् उदयवैचित्र्याद्वाऽसङ्ख्याता भेदाः सम्पद्यन्ते इति / उक्तं च म्हा उ. ओहिविसओ, उक्कोसो सबबहुयसिहिसूई / जत्तियमित्तं फुसई, तत्तियमित्तप्पएससमो // ( ) तत्तारतम्मभेया, जेण बहुं हुंति आवरणजणिया / तेणासंखगुणत्तं, पयडीणं जोगओ जाणे // ( ) इति / चतसृणामानुपूर्वीणां बन्ध-उदयवैचित्र्येणासङ्ख्माता भेदाः, ते च लोकस्यासहोयभागवर्तिप्रदेशराशितुल्या इति बृहच्छतफचूर्णिकारोक्तो विशेषः / / ननु जीवानामनन्तत्वात् तेषां बन्ध-उदयवैचित्र्येणानन्ता अपि प्रकृतिभेदाः कस्माद् न भवन्ति ? नैतदेवम् , सदृशानां बन्ध-उदयानामेकत्वेन विवक्षितत्वाद् विसदृशास्त्वेतावन्त एव तद्वेदा भवन्ति, ते च भेदाः प्रकृतिभेदत्वात् प्रकृतय इत्युच्यन्ते / ततश्च योगस्थानेभ्योऽसयातगुणाः प्रकृतयः, यत एकैकस्मिन् योगस्थाने वर्तमानैर्नानाजीवैः कालभेदादेकजीवेन वा सर्वा * 'अप्येताः प्रकृतयो बध्यन्त इति / ___ तथा तेभ्यः प्रकृतिमेदेभ्यः 'स्थितिभेदाः' स्थितिविशेषा अन्तर्मुहूर्त-समयाधिकान्तर्मुहूर्तद्विसमयाधिकान्तर्मुहूर्त-त्रिसमयाधिकान्तर्मुहूर्तादिलक्षणा असङ्ख्यातगुणा भवन्ति, एकैकस्याः प्रकृतेरसञ्जमातैः स्थितिविशेषैर्बध्यमानत्वात् / एकमेव हि प्रकृतिभेदं कश्चिमीवोऽन्येन स्थितिविशेषेण बध्नाति, स एव च तं कदाचिदन्येन कदाचिदन्यतरेण कदाचिदन्यतमेनेत्येवमेकं प्रकृतिमेदमेकं च जीवमाश्रित्य अङ्ख्याताः स्थितिभेदा भवन्ति, किं पुनः सर्वप्रकृतीः सर्वजीवान आश्रित्य प्रकृतिभेदेभ्यः स्थितिभेदानामसवातगुणत्वम् ? इति, अतः प्रकृतिभेदेभ्यः स्थितिभेदा असह्यातगुणा भवन्तीति / तथा स्थितिभेदेभ्यः सकाशात् स्थितिबन्धाध्यवसायाः “पदैकदेशे पदसमुदायोपचारात्" स्थितिबन्धाध्यवसायस्थानानि असङ्ख्यातगुणानि। तत्र स्थानं-स्थितिः कर्मणोऽवस्थानं तस्या बन्धः स्थितिबन्धः, अध्यवसानानि अध्यवसायाः, ते चेह कषायजनिता जीवपरिणामविशेषाः, / सर्वबहुकाग्मिजीवा निरन्तरं यावद् भृतवन्तः / क्षेत्रं सर्वदिकं परमावधिक्षेत्रं निर्दिष्टम् // 2 यस्मात्त्ववधि. विषय उत्कृष्टः सर्वबहुकशिखिसूची / यावन्मानं स्पृशति तावन्मात्रप्रदेशसमः // तत्तारतम्यमेदा येन बहवो भवन्त्यावरणजनिताः / तेनासंख्यगुणत्वं प्रकृतीनां योगत्तो जानीहि //