________________ देवेन्द्रसूरिविरचितः स्वोपवाटीकोपेतः [गामा षषष्टी' षट्षष्ठिद्वयम् / अयमत्र भावार्थ:--यः कश्चिद् जन्तुर्विशुद्धिवशाद मिथ्यादृष्टित्वं परित्वज्य सम्यक्त्वं प्रतिपन्नः, ततः सागरोपमषट्षष्टिप्रमाणमुत्कृष्ठं सम्यक्त्वकालं प्रतिपाल्य अन्तर्मुइतमेकं सम्यग्मिथ्यात्वं गच्छति, ततो भूयोऽपि सम्यक्त्वमासाद्य सागरोपमषक्षष्टिं याक्त् तदनुपाल्य तत ऊर्ध्वं यो न सिध्यति सोऽवश्यं मिथ्यात्वं गच्छति, तत इत्थं सागरोपमषट्षष्टिवयरूपं सामर्थ्यतो मिश्रान्तर्मुहूर्त नरभवाधिकमुत्कृष्टं मिथ्यात्वस्यान्तरालं भवतीति / "इयरगुणे" चि इतरगुणस्थानकविषये / कोऽर्थः ? मिथ्यादृष्टिगुणस्थानकापेक्षयाऽन्यगुणस्थानकेषु सास्वादनाविषपशान्तमोहान्तेषु 'गुरु अन्तरम्' उत्कृष्टोऽन्तरालकालो भवति / कियद् ! इत्याह-"पुग्गलदंतो" ति सूचकत्वात् सूत्रस्य पुद्गलस्य-पुद्गलपरावर्तस्यार्धं पुद्गलपरावर्ताद्धं तस्यान्तर-मध्यं पुद्गलपरावर्तार्द्धान्तः, किञ्चिदूनं पुद्गलपरावर्तार्द्धमित्यर्थः / इदमत्र तात्पर्यं—सास्वादनादय उपशमणिगतापूर्वकरणायुपशान्तमोहान्ताश्च जीवा निजनिजगुणस्थानकावस्थितेयंदा परिभ्रष्टास्तदोत्कृष्टतः किञ्चिदून पुद्गलपरावर्ता यावदपारसंसारपारावारमध्यमवगाह्य पुनस्तानि गुमस्थानकानि लभन्ते नार्वाक, तत ऊर्ध्वं च सम्यक्त्वादिगुणान् सम्प्राप्य अवश्यं जीवाः सिध्यन्तीति, ततो देशोनार्धपुद्गलपरावर्तमानमेषामुत्कृष्टमन्तरं भवति / क्षपकक्षीणमोहादीनां चान्तरमेव नास्ति, प्रतिपाताभावादिति // 84 // इह सास्वादनस्य जघन्यमन्तरं पल्योपमासयेयांश उक्तम् / अतः पल्योपमस्वरूप सप्रपञ्चं प्रतिकटयिषुराह उद्धार अद्ध खित्तं, पलिय तिहा समयवाससयसमए। केसवहारो दीवोदहिआउतसाइपरिमाणं // 85 // धान्यपल्यवत् पल्यं-पल्योपमं 'त्रिधा' त्रिप्रकारं भवति / सिलोपः प्राकृतत्वात् / तथाहिउद्धारपल्योपमम् अद्धापल्योपमं क्षेत्रपल्योपमं च / तत्र वालाग्राणां तत्खण्डानां वा प्रतिसमयमुकारणमुद्धारस्तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमम् 1 / अद्धा-कालः स च प्रस्तावाद् वालाग्राण तत्खण्डानां वाऽपहारे प्रत्येकं वर्षशतलक्षणस्तत्प्रधानं पल्योपममद्धापल्योपमम् 2 / क्षेत्रम्-आकाशप्रदेशरूपं तत्प्रधानं पल्योपमं क्षेत्रपल्योपमं च 3 इति / “समयवाससयसमए केसवहारो" चि तत्रोद्धारपल्योपमे केशानां-वालाग्राणां समये समयेऽपहारः-उद्धरणं क्रियते, अद्धापल्योपमे वर्षशते केशापहारः क्रियते, क्षेत्रपल्योपमे समये समये केशापहारः-केशस्पृष्टाऽस्पृष्टाकाशप्रदेशापहारः क्रियते / तत्र "दीवोदहिआउतसाइपरिमाणं" ति तत्रोद्धारपल्योपमेन प्रयोजनं द्वीपोदधिपरिमाणं-द्वीपा उदधयश्चानेन प्रमीयन्ते, तथाऽद्धापल्योपमेन प्रयोजनम् आयुःपरिमाणं-देव नारक-तिर्यङ्-मनुष्याणामायूंष्यनेन मीयन्त इत्यर्थः, क्षेत्रपस्योपमेन प्रयोजनं सादिपरिमाणम् , आदिशब्दात् पृथिवीकायिका-ऽप्कायिक-तेजस्कायिक-वायुकायिक-वनस्पतिकायिकानां परिमाणं प्राथम् / उक्तं च ऐएण खित्तसागरउवमाणेणं हविज नायबं / 1 त०म० देवानां नारक° / छा० सं 1-2 देवानां नरक / 2 एतेन क्षेत्रसागरोपमानेन भवेज्ज्ञातव्यम् / पृथ्वीदकानिमारुतहरितत्रसानां च परिमाणम् //