________________ शतकनामा पञ्चमः फर्मग्रन्थः / सास्वादनभावमासाद्य मिथ्यात्वं गतः सन् यदि तदेव सास्वादनत्वं पुनर्लभतेऽन्तरकरणप्रकारेणैव तदा जघन्यतोऽपि पल्योपमासयेयभागोवं लभते, नार्वाक् / किं कारणम् ! इति चेद् उच्यते यतः सास्वादनाद् मिथ्यात्वं गतस्य प्रथमसमये सम्यक्त्व-मिश्रपुञ्जौ सत्तायामवश्यं तिष्ठत एव / न च तयोः सत्तायां वर्तमानयोः पुनरौपशमिकसम्यक्त्वं लभते, तदभावात् सास्वादनत्वं दुरापास्तमेव / यदि पुञ्जद्वयसद्भावे औपशमिकसम्यक्त्वस्य न लाभस्तर्हि पल्योपमासयभागेऽप्यतिक्रान्ते कथं सास्वादनलाभः ? इति चेद् उच्यते--इह सम्यक्त्व-मिश्रपुञ्जी मिथ्यात्वं गतः प्रतिसमयमुद्वर्तयति, तद्दलिकं प्रतिसमयं मिथ्यात्वे प्रक्षिपतीत्यर्थः / अनेन च क्रमेणैतावुद्वर्त्यमानौ पल्योपमासयेयभागेन सर्वथोद्वर्तितौ निःसत्ताकं नीतौ भवतः, इत्थमेव कर्मप्रकृत्यादिष्वभिहितत्वात् / ततः पल्योपमासययभागेन मिश्र-सम्यक्त्वपुञ्जयोरुद्वर्तितयोस्तदन्ते कश्चिद् जन्तुः पुनरप्यौपशमिकसम्यक्त्वमासाद्य सास्वादनत्वं गच्छतीत्येवं सास्वादनस्य पस्योपमासययभागोऽन्तरं भवतीति / - नन्वेकदोपशमश्रेणेः प्रतिपतितः सास्वादनभावमनुभूय यदा पुनरप्यन्तर्मुहूर्तेन एतामेवोपशमश्रेणि प्रतिपद्य ततः प्रतिपतितः सास्वादनभावं लभते तदा जघन्यतोऽल्पमेवान्तरं लभ्यते, तत्किमिति पल्योपमासमेयभागो जघन्यमन्तरमित्युक्तम् ! सत्यम् , उपशमश्रेणेः प्रतिपतितो यः सास्वादनत्वं गच्छति स केवलं मनुजगतिभावित्वेनाल्पत्वाद् नेह विवक्षित इतीतरस्यैव प्रभूतस्य चतुर्गतिवर्तित्वादन्तरालचिन्तेति / इतरगुणस्थानकेभ्यश्च मिथ्यादृष्टि-सम्यग्मिथ्यादृष्टि-अविरतसम्यग्दृष्टि-देशविरत-प्रमत्ता-अमत्तोपशमश्रेणिगतापूर्वकरणा-ऽनिवृत्तिबादर-सूक्ष्मसम्पराय-उपशान्तमोहलक्षणेभ्यः परिभ्रष्टः पुनर्जघन्यतोऽन्तर्मुहूर्तेऽतिक्रान्ते तान्येव गुणस्थानकानि लभते इति तेषां जघन्यतोऽन्तर्मुहूर्तमेवान्तरालं भवति / तथाहि-कश्चिद् जीव उपशमश्रेण्यारूढः सन् उपशान्तत्वमपि सम्प्राप्य प्रतिपतितो मिथ्यादृष्टित्वं यावदवामोति, ततो भूयोऽप्यन्तर्मुहूर्तेन तान्येवोपशान्तगुणस्थानान्तानि यदाऽऽरोहति तदा शेषाणां सास्वादन-मिश्रगुणस्थानकवर्जितानां गुणस्थानकानां प्रत्येकं जघन्यत आन्तमॊहूर्तिकमन्तरं भवति, एकस्मिंश्च भवे वारद्वयमुपशमणिकरणं समनुज्ञातमेव / उक्तं च ऍगभवे दुक्खुत्तो, चरित्तमोहं उवसमिज्जा // ( कर्मप्र० 376 ) तत्र सास्वादनं प्रति जघन्यान्तरस्योक्तत्वात् श्रेणिप्रतिपतितस्य च मिश्रगमनाभावात् तयोर्वजनमुक्तम् / श्रेणिगमनाभावे तु मिश्रस्य सास्वादनवर्जशेषगुणस्थानकानां च मिथ्यादृष्ट्यादीनामप्रमत्तान्तानां परावृत्य परावृत्य गमनत आन्तमॊहूर्तिकमन्तरं प्राप्यते / क्षपक-क्षीणमोह-सयोगिकेवलि-अयोगिकेवलिनां त्वन्तरचिन्ता नास्ति, तेषां प्रतिपातस्यैवाभावादिति // उक्तं जघन्यमन्तरं सर्वगुणस्थानकानाम् / इदानीमुत्कृष्टमन्तरमाह-"गुरु मिच्छि बे * छसट्ठी" इत्यादि / 'गुरु' उत्कृष्टमन्तरं "मिच्छि" त्ति 'मिथ्यात्वे' मिथ्यादृष्टिगुणस्थानकस्य द्वे 1 छा० म० °वदानोति // 2 सं०१ म० °दावशेषा // . 3 एकस्मिन् भवे द्विवारित्रमोहमपशमयेत् // 13.