________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथाः गिण्हइ समए दलियं, तइए समए असंखगुणियं तु / एवं समए समए, जा चरिमो अंतसमओ ति // ( तथेहापूर्वकरणा-ऽनिवृत्तिकरणाद्धाद्वयाद् विशेषाधिकोऽन्तर्मुहूर्तप्रमाणो गुणश्रेणेः कालो भवति, तावन्तं च कालं दलिकविरचनं करोति / तथाऽधस्तनाधस्तनोदयक्षणे वेदनतः क्षीणे सति शेषक्षणेषु दलिकं विरचयति, न पुनरुपरि गुणश्रेणिं वर्धयति / उक्तं च 'सेढीऍ कालमाणं, दुण्ह य करणाण समहियं जाण / खिज्जइ सा उदएणं, जं सेसं तम्मि निक्खेवो // ( ) सम्यक्त्वश्रेणेरयं क्रमः / शेषाणामपि श्रेणीनां दलरचनायां प्राय एष एव विधिः किञ्चिद्विशेषोऽपि चास्ति, केवलं स कर्मप्रकृत्यादिग्रन्थान्तरादवसेयो नेह प्रतन्यते, ग्रन्थगौरवभयात् / अधुना यद्गुणवशाद् जीवानां यावती निर्जरा तामाह-एते-प्रागुपदर्शिताः सम्यक्त्व-देशविरति-सर्वविरत्यादयो गुणाः-धर्मा येषां ते एतद्गुणा जीवा इत्युत्तरेण सम्बन्धः / कथम् ! इत्याह'पुनः' इति पुनःशब्दो गुणश्रेणिस्वरूपापेक्षया व्यतिरेकार्थः / 'क्रमशः' यथोत्तरं क्रमेणासङ्ख्यातगुणिता निर्जरा-कर्मपुद्गलपरिशाटरूपा येषां तेऽसङ्ख्यगुणनिर्जराः 'जीवाः' सत्त्वा भवन्तीति शेषः / तत्र सम्यक्त्वगुणा जीवाः स्तोकपुद्गलनिर्जरकाः, ततो देशविरता असङ्घयेयगुणनिर्जराः, ततः सर्वविरता असङ्ख्येयगुणनिर्जराः, ततोऽनन्तानुबन्धिविसंयोजका असङ्ख्येयगुणनिर्जराः, ततो दर्शनक्षपका असङ्येयगुणनिर्जराः, ततो मोहशमका असङ्ख्येयगुणनिर्जराः, तत उपशान्तमोहा असङ्ख्येयगुणनिर्जराः, ततः क्षपका असङ्ख्येयगुणनिर्जराः, ततः क्षीणमोहा असङ्ख्येयगुणनिर्जराः, ततः सयोगिकेवलिनोऽसङ्ख्येयगुणनिर्जराः, ततोऽप्ययोगिकेवलिनोऽसङ्ख्येयगुणनिर्जराः // 83 // ... इहोत्तरोत्तरगुणारूढानां जन्तूनामसङ्ख्येयगुणनिर्जराभाक्त्वमुक्तम् , उत्तरोत्तरगुणाश्च यथाक्रममविशुद्ध्यपकर्ष-विशुद्धिप्रकर्षस्वरूपाः सन्तो गुणस्थानकान्युच्यन्ते, अतस्तेषां गुणस्थानकानां जघन्यमुत्कृष्टं चान्तरालं प्रतिपादयन्नाह पलियासंखंसमुहू, सासणइयरगुण अंतरं हस्सं / गुरु मिच्छि बे छसही, इयरगुणे पुग्गलद्धंतो // 84 // इह 'भामा सत्यभामा' इति न्यायात् पल्योपमासङ्ख्यांशोऽन्तर्मुहूर्त च 'जघन्यमन्तरमिति योगः / केषाम् ? इत्याह—सास्वादनश्च इतरगुणाश्च-अवशिष्टगुणस्थानकानि सास्वादनेतरगुणास्तेषाम् , प्राकृतत्वादत्र विभक्तिलोपः। 'अन्तरं' विवक्षितगुणस्थानावस्थितेः प्रच्युतानां पुनस्तत्प्राप्तेर्व्यवधानम् अन्तरालमिति यावत् , 'इस्वं' जघन्यम् / तत्र सास्वादनगुणस्थानकस्य जघन्यमन्तरं पल्योपमासङ्ख्येयभागः, इतरगुणस्थानकानां तु जघन्यमन्तर्मुहूर्तमित्यक्षरार्थः / .. भावार्थः पुनरयम्-योऽनादिमिथ्यादृष्टिरुद्वलितसम्यक्त्व-मिश्रपुञ्जो वा मिथ्यादृष्टिः षड्विंशतिसत्कर्मा सन् अन्तरकरणादिना प्रकारेणोपलब्धौपशमिकसम्यक्त्वोऽनन्तानुबन्ध्युदयात् 1 श्रेणेः कालमानं द्वयोश्च करणयोः समधिकं जानीहि / क्षीयते सोदयेन यच्छेषं तस्मिन्निक्षेपः // 2 सटीकेयं गाथा सार्द्धशतकप्रकरणस्य 105 गाथा-तट्टीकासमा // 3 सं० 1-2 त० म० छा० यासंखंतमु // 4 सार्द्धशतकप्रकरणटीकायां-न्यमन्तरमन्तर्म //