________________ 25 82-83 ] शतकनामा पञ्चमः कर्मग्रन्थः। मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशाग्रां च तां विदधाति / ततो दर्शननमोहनीयक्षपकः सङ्ख्येयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशाग्रां च तां निर्मापयति / ततोऽपि मोहशमकः सङ्घयेयगुणहीनान्तर्मुहूर्तवेद्यामसोयगुणप्रदेशानां च तां विरचयति / ततोऽप्युपशान्तमोहगुणस्थानकवर्ती सायगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशानां च तां विरचयति / ततोऽपि क्षपकः सझ्येयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशानां च तां विरचयति / ततोऽपि क्षीणमोहः सोयगुणहीनान्तर्मुहूर्तवेद्यामसङ्घयेयगुणप्रदेशानां च तां कुरुते / ततोऽपि सयोगिकेवली भगवान् सोयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशानां च तां विधत्ते / ततोऽप्ययोगिकेवली परमविशुद्धिपरिकलितः सङ्येयगुणहीनान्तर्मुहूर्तवेद्यामसङ्ख्येयगुणप्रदेशानां च तां परिकल्पयति / तदेवं यथा यथाऽतिविशुद्धिस्तथा तथा इस्वकाल-बहुप्रदेशाग्रत्वं च गुणश्रेणेर्भवतीति // 82 // निरूपिता गुणश्रेणिरेकादशधा / सम्प्रत्यस्या एव स्वरूपं पूर्वप्रदर्शितसम्यक्त्वादिगुणारुढजन्तूनां मध्ये यस्य जन्तोर्यावद्गुणा दलिकनिर्जरा तां च प्ररूपयन्नाह गुणसेढी दलरयणाऽणुसमयमुदयादसंखगुणणाए। एयंगुणा पुण कमसो, असंखमुणनिजरा जीवा / / 83 // . गुणेन-गुणकारेण श्रेणिर्गुणश्रेणिः / श्रेणिशब्दवाच्यमाह--"दलरयण" त्ति दलस्य-उपरितनस्थितेरवतारितप्रदेशाग्रस्य रचना-सन्न्यासो दलरचना / कथं पुनर्दलिकरचना ? कस्माचारभ्य केन च गुणकारेण विधीयते जन्तुना ? इत्याह-'अनुसमयं' ति समयं समयमनु-लक्षीकृत्य प्रतिसमयमित्यर्थः, 'उदयाद्' उदयक्षणादारभ्य 'असङ्ख्यगुणनया' असङ्ख्यातगुणकारेण / इदमुक्तं भवति-उपरितनस्थितेरवतारितं दलिकमुदयक्षणे स्तोकं जन्तुर्विरचयति, द्वितीयक्षणेउसख्यातगुणम् , तृतीयक्षणेऽसङ्ख्यातगुणम् इत्येवं प्रतिसमयमसङ्ख्यातगुणकारेण दलरचना तावद् नेया यावद् गुणश्रेणिमस्तकमिति / तथोपरितनस्थित्तैर्दलिकावतारणस्याप्ययमेव न्यायो वाच्यः / यथा-गुणश्रेणिन्यसनयोग्यमुपरितनस्थितेः प्रथमसमये स्तोकं गृह्णाति, द्वितीयसमयेऽसत्यातगुणम् , एवं प्रतिसमयमसङ्ख्यातगुणकारेण तावद् नेयं यावत् चरमसमय इति / उक्तं च उँवरिल्लठिईहितो, चित्तूणं पुग्गले उ सो खिवइ / उदय समयम्मि थोवे, तत्तो य असंखगुणिए उ // बीयश्मि खिवइ समए, तइए तत्तो असंखगुणिए उ / एवं समए समए, अंतमुहुत्तं तु जा पुन्नं // दलियं तु गिण्हमाणो, पढमे समयम्मि थोवयं गिण्हे / उवरिल्लठिईहिंतो, बीयम्मि असंखगुणियं तु // 1 सटीकेयं गाथा सार्द्धशतकप्रकरणस्य 104 गाथा-तट्टीकासमाना / 2 उपरितनस्थितेहीत्वा पुद्गलास्तु स क्षिपति / उदयसमये स्तोकांस्ततश्चाङ्ख्यगुणितांस्तु / / द्वितीये क्षिपति समये तृतीयस्मिस्ततोऽसङ्ख्यगुणितांस्तु / एवं समये समये अन्तर्मुहूर्त तु यावत् पूर्णम् / / दलिकं तु गृहन् प्रथमे समये स्तोककं गृह्णीयात् / उपरितनस्थितेर्द्वितीये असहायगुणितं तु // गृह्णाति समये दलिकं तृतीये समयेऽसङ्ख्यगुणितं तु / एवं समये समये यावच्चरमोऽन्तसमय इति /