________________ देवेन्द्रदरिविरचितः स्वोपाटीकोपेतः [गायः गुणं, ततो नरकगतेरसोयगुणम् / तथा जातौ सर्वस्तोकं जघन्यपदे प्रदेशानं चतुर्णा द्वीन्द्रियादिजातिनाम्नां, तत एकेन्द्रियजातेर्विशेषाधिकम् / तथा शरीरनानि, सर्वस्तोकमौवारकशरीरनामः, ततस्तैजसशरीरनाम्नो विशेषाधिकं, ततः कार्मणशरीरनाम्नो विशेषाधिकं, तलो वैक्रियशरीरनामोऽसङ्ख्येयगुणं, ततोऽप्याहारकशरीरनाम्नोऽसङ्ख्येयगुणम् / एवं सनातनामोऽपि वाच्यम् / अङ्गोपाङ्गनानि सर्वस्तोकं जघन्यपदे प्रदेशाप्रमौदारिकाङ्गोपाङ्गनाम्नः, ततो वैक्रियानोपाजनानोऽसयेयगुणं, ततोऽप्याहारकाङ्गोपाङ्गनाम्नोऽसङ्ख्येयगुणम् / तथा सर्वस्तोकं जघन्यपदे प्रदेशानं नरकगति-देवगत्यानुपूर्योः, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् , ततो मनुजानुपूर्त्या विशेषाधिकं, ततस्तिर्यग्गत्यानुपूर्व्या विशेषाधिकम् / तथा सर्वस्तोकं त्रसनानः, ततः स्थावरनामो विशेषाधिकम् / एवं बादर-सूक्ष्मयोः पर्याप्ता-ऽपर्याप्तयोः प्रत्येक साधारणयोश्च / शेषाणां तु नामप्रकृतीनामल्पबहुत्वं न विद्यते, तथा साता-ऽसातवेदनीययोरुचैर्गोत्र-नीचैर्गोत्रयोरपि / अन्तराये पुनर्यथोत्कृष्टपदे तथैवावगन्तव्यमिति // 81 // प्रतिपादितं मूलोत्तरप्रकृतीनां भागस्वरूपम् / सम्प्रति भागलब्धदलिकं प्रभूततरं गुणश्रेणिरचनयैव जन्तुः क्षपयति अतो गुणश्रेणिस्वरूपप्रतिपादनार्थमाह सम्मवरसव्वविरई उ अणविसंजोयसखवगे य। मोहसमसंतखवगे, खीणसजोगियर गुणसेढी // 82 // गुणश्रेणय एकादश भवन्तीति सम्बन्धः / कुत्र कुत्र ? इत्याह-" सम्मदरसबविरई उ" इत्यादि / तत्र “संम्म" ति सम्यक्त्वं-सम्यग्दर्शनं तल्लामे एका गुणश्रेणिः / तथा विरतिशब्दस्य प्रत्येकं सम्बन्धाद दरविरतिः-देशविरतिस्तल्लामे द्वितीया गुणश्रेणिः। सर्पविरतिःसम्पूर्णविरतिस्तल्लामे तृतीया गुणश्रेणिः / “अणविसंजोय" ति अनन्तानुषन्धिविसंयोजनायां चतुर्थी गुणश्रेणिः / “दंसखवगे" त्ति पदैकदेशे पदप्रयोगदर्शनाद् दर्शनस्य-दर्शनमोहनीयस्य क्षमको दर्शनक्षपकस्तत्र तद्विषया पञ्चमी गुणश्रेणिः / चशब्दः समुच्चये / “मोहसम" ति मोहस्य-मोहनीयस्य शमः-शमक उपशमकः स चोपशमश्रेण्यारूढोऽनिवृत्तिवादरः सूक्ष्मसम्परायश्चाभिधीयते, तत्र मोहशमे षष्ठी गुणश्रेणिः। “संत" ति शान्तः-उपशान्तमोगुणस्थानः कवी तत्र सप्तमी गुणश्रेणिः। "खवगि" त्ति क्षपकः-क्षपकश्रेण्यारूढोऽनिवृत्तिबादरः सूक्ष्मसम्परायश्च निगद्यते, तत्र क्षपकेऽष्टमी गुणश्रेणिः / “खीण" ति क्षीणः क्षीणमोहस्तिस्य मवमी गुणश्नेणिः / “सजोगि" ति सयोगिकेवलिनो दशमी गुणश्रेणिः। "इयर" ति अयोगिकेवलिन एकादशी गुणश्रेणिरिति गाथाक्षरार्थः / / भावार्थः पुनरयं-सम्यक्त्वलाभकाले मन्दविशुद्धिकत्वाद् जीवो दीर्घान्तर्मुहूर्तवेद्यामल्पतरप्रदेशानां च गुणश्रेणिमारचयति / ततो देशविरतिलामे सध्येयगुणहीनान्तर्मुहूर्तवेद्यामसक्येयगुणप्रदेशाग्रां च तां करोति / ततः सर्वविरतिलाभे सोयगुणहीनान्तर्मुहूर्तवेद्यामसोयगुणप्रदेशाग्रां च तां करोति / ततोऽप्यनन्तानुबन्धिविसंयोजनायां सस्पेयगुणहीनान्त 1 कर्मप्रकृतिटीकायां तु-"सङ्घातननाम्नोऽ" इत्येवंरूपः पाठः // 2 सं० 1-2 त० मा “सम्म" ति॥