________________ 81] 93 शतकनामा पञ्चमः कर्मग्रन्थः / योगतिनाम्नः, ततोऽप्रशस्तविहायोगतिनाम्नो विशेषाधिकम् / तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशानं सनामः, ततो विशेषाधिकं स्थावरनाम्नः / एवं बादर-सूक्ष्मयोः पर्याप्ता-ऽपर्याप्तयोः प्रत्येक-साधारणयोः स्थिरा-ऽस्थिरयोः शुभा-ऽशुभयोः सुभग-दुर्भगयोः सुस्वर-दुःस्वरयोरादेयाऽनादेययोयशःकीर्ति-अयशःकीर्योर्वाच्यम् / आतप-उद्योतयोरुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु द्वयोरपि तुल्यम् / निर्माण-उच्छ्वास-पराघात-उपघाता-ऽगुरुलघु-तीर्थकराणां त्वल्पबहुत्वं नास्ति। ___ यत इदमल्पबहुत्वं सजातीयप्रकृत्यपेक्षया प्रतिपक्षप्रकृत्यपेक्षया वा चिन्त्यते, यथा कृष्णादिवर्णनाम्नः शेषवर्णापेक्षया, प्रतिपक्षप्रकृत्यपेक्षया वा यथा सुभग-दुर्भगयोः; न चैताः परस्परं सजातीया अभिन्नैकमूलपिण्डप्रकृत्यभावात् , नापि विरुद्धा युगपदपि बन्धसम्भवात् / तथा गोत्रे सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं नीचैर्गोत्रस्य, तत उच्चैर्गोत्रस्य विशेषाधिकम् / तथाऽन्तरायकर्मणि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं दानान्तरायस्य, ततो लाभान्तरायस्य विशेषाधिकं, ततो भोगान्तरायस्य विशेषाधिकं, तत उपभोगान्तरायस्य विशेषाधिक, ततो वीर्यान्तरायस्य विशेषाधिकम् / - तदेवमुक्तमुत्तरप्रकृतीनामुत्कृष्टपदे प्रदेशापाल्पबहुत्वम् / सम्प्रति जघन्यपदे तदभिधीयतेतत्र सर्वस्तोकं जघन्यपदे प्रदेशाग्रं केवलज्ञानावरणस्य, ततो मनःपर्यवज्ञानावरणस्यानन्तगुणं, ततोऽवधिज्ञानावरणस्य विशेषाधिकं, ततः श्रुतज्ञानावरणस्य विशेषाधिकं, ततो मतिज्ञानावरणस्य विशेषाधिकम् / तथा दर्शनावरणस्य सर्वस्तोकं जघन्यपदे प्रदेशाग्रं निद्रायाः, ततः प्रचलाया विशेषाधिकं, ततो निद्रानिद्राया विशेषाधिकं, ततः प्रचलाप्रचलाया विशेषाधिकं, ततः स्त्यानविशेषाधिकं, ततः केवलदर्शनावरणस्य विशेषाधिकं, ततोऽवधिदर्शनावरणस्यानन्तगुणं, ततोऽचक्षुर्दर्शनावरणस्य विशेषाधिकं, ततश्चक्षुर्दर्शनावरणस्य विशेषाधिकम् / तथा मोहनीये . सर्वस्तोकं जघन्यपदे प्रदेशाग्रमप्रत्याख्यानावरणमानस्य, ततोऽप्रत्याख्यानावरणक्रोधस्य विशेषाधिकं, ततोऽप्रत्याख्यानावरणमायाया विशेषाधिकं, ततोप्रत्याख्यानावरणलोभस्य विशेषाधिकम् / तत एवमेव प्रत्याख्यानावरणमान-क्रोध-माया-लोभा-ऽनन्तानुबन्धिमान-क्रोध-माया-लोभानां यथोत्तरं विशेषाधिकत्वं वक्तव्यम् / ततो मिथ्यात्वस्य विशेषाधिकम् / ततो जुगुप्साया अनन्तगुणम् / ततो भयस्य विशेषाधिकम् / ततो हास्य-शोकयोर्विशेषाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् / ततो रति-अरत्योर्विशेषाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् / ततोऽन्यतरवेदस्य विशेषाधिकम् / ततः संज्वलनमान-क्रोध-माया-लोभानां यथोत्तरं विशेषाधिकम् / तथाऽऽयुषि सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तिर्यङ्-मनुष्यायुषोः, स्वस्थाने तु परस्परं तुल्यम् / ततो देव-नारकायुषोरसङ्येयगुणं, स्वस्थाने तु परस्परं तुल्यम् / तथा नामकर्मणि गतौ सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तिर्यग्गतेः, ततो मनुजगतेर्विशेषाधिकं, ततो देवगतेरसयेयकर्मप्रकृतौ तु-" तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं त्रसनाम्नः, ततो विशेषाधिकं स्थावरनाम्नः / तथा सर्वस्तोकं प्रदेशाग्रं पर्याप्तनाम्नः, ततो विशेषाधिकमपर्याप्तनाम्नः / एवं स्थिरा-ऽस्थिरयोः शुभाःऽशुभयोः सुभग-दुर्भगयोरादेया-ऽनादेययोः सूक्ष्म-बादरयोः प्रत्येक-साधारणयोर्वाच्यम् / तथा सर्वस्तोकमयशःकीर्तिनाम्नः प्रदेशाप्रम्, ततो. यशःकीर्तिनाम्नः संख्येयगुणम् / शेषाणामातप-उद्योत-प्रशस्ता-प्रशस्तविहायोगति-सुस्वरदुःस्वराणां परस्परं तुल्यमुत्कृष्टपदे प्रदेशाग्रम् / निर्मा०" एवंरूपः पाठो दृश्यते // .... .....