________________ . देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथा: पिंडपगईसु बज्झतिगाण वन्नरसगंधफासाणं / सधेसि संघाए, तणुम्मि य तिगे चउके वा // ( कर्मप्र० गा० 27) अस्या अक्षरार्थगमनिका--पिण्डप्रकृतयो नामप्रकृतयः / यदुक्तं कर्मप्रकृतिपूर्णीपिंडपगईओ नामपगईओ ति। ( ) सासु मध्ये बध्यमानानामन्यतमगति-जाति-शरीर-बन्धन-संघातन-संहनन-संस्थाना-नोपाजाऽऽनुपूर्वीणां वर्ण-गन्ध-रस-स्पर्शा-ऽगुरुलघु-पराघात-उपघात-उच्छास-निर्माण-तीर्थकराणां आतपउद्योत-प्रशस्ता-प्रशस्तविहायोगति-त्रस-स्थावर-बादर-सूक्ष्म-पर्याप्ता-ऽपर्याप्त-प्रत्येक-साधारणस्थिरा-ऽस्थिर-शुभा-ऽशुभ-सुभग-दुर्भग-सुस्वर-दुःस्वरा-ऽऽदेया-ऽनादेय-यशःकीर्ति-अयशःकीर्त्यन्यतराणां च मूलभागो विभज्य समर्पणीयः / अत्रैव विशेषमाह-वर्णेत्यादि / वर्ण-गन्ध-रस-षर्शानां प्रत्येकं वद् भागलब्धं दलिकमायाति तत् सर्वेभ्यस्तेषामेवावान्तरभेदेभ्यो विभज्य विभज्य दीयते। तथाहि-वर्णनाम्नो यद् भागलब्धं दलिकं तत् पश्चधा कृत्वा शुक्लादिभ्योऽवान्तरमेदेभ्यो विभज्य विभज्य प्रदीयते, एवं गन्ध-रस-स्पर्शानामपि यस्य यावन्तो भेदास्तस्य सम्बन्धिनो भागस्य तति भागाः कृत्वा तावद्भयोऽवान्तरभेदेभ्यो दातव्याः / तथा सङ्घाते तनौ च प्रत्येकं . यद् भागलब्धं दलिकमाथाति तत् त्रिधा चतुर्धा वा कृत्वा त्रिभ्यश्चतुभ्यॊ वा दीयते / तत्रौदारिक-तैजस-कार्मणानि वैक्रिय-तैजस-कार्मणानि वा श्रीणि शरीराणि सङ्घातान् वा युगपहनता त्रिधा क्रियते, वैक्रिया-ऽऽहारक-तैजस-कार्मणरूपाणि चत्वारि शरीराणि सङ्घातान् वा वध्नता चतुर्धा क्रियते / “सरोकार विगप्पा बंधणनामाण" (कर्मप्र० गा० 28) बन्धननाम्नां भागलब्धं यद् दलिकमायाति तस्य सप्त विकल्पाः-सप्त भेदाः शरीरत्रये, एकादश वा विकल्पाः शरीरचतुष्टये क्रियन्ते / तत्रौदारिकौदारिक 1 औदारिकतैजस 2 औदारिककार्मण 3 औदारिकतैजसकार्मण४ तैजसतैजस 5 तैजसकार्मण 6 कार्मणकोर्मण 7 लक्षणबन्धनानि बनता सप्त, वैक्रियचतुष्काऽऽहारकचतुष्क-तैजसत्रिकलक्षणान्येकादश बन्धनानि बध्नता एकादश, अवशेषाणां च प्रकृतीनां यद् भागलब्धं दलिकमायाति सद् न भूयो विभज्यते, तासां युगपदवान्तरद्वित्र्यादिमेदबन्धागावात् , तेन तासां तदेव परिपूर्ण दलिकं भवतीति / गोत्रस्य तु यद् भागागतं द्रव्यं तद् एकस्या एव बध्यमानप्रकृतेः सर्व भवति, यद् गोत्रस्यैकदा उच्चैर्गोत्रलक्षणा नीचैर्गोत्रलक्षणा वैकैव प्रकृतिबध्यते / अन्तरायभागलब्धं तु द्रव्यं दानान्तरायादिप्रकृतिपञ्चकतया परिणमति, यत एताः पश्चापि ध्रुवबन्धित्वात् सर्वदैव बध्यन्त इति / ननु “बझंतीण विभजइ" इति वचनेन बध्यमानानामेवायं भागविधिरुक्तः, यदा च खस्वगुणस्थाने बन्धव्यवच्छेदः सम्पद्यते तदा तासां भागलभ्यं द्रव्यं कस्या भागतया भवति ? इति अत्रोच्यते—यस्याः प्रकृतेर्बन्धो व्यवच्छिद्यते तद्भागलभ्यं द्रव्यं यावदेकाऽपि सजातीयप्रकृतिर्बध्यते तावत् तस्या एव तद् भवति / यदा पुनः सर्वासामपि सजातीयप्रकृतीनां बन्धो व्यव 1 सं० 1-2 छा० त० म० °त-संहन // 2 अस्मत्पार्श्ववर्तिषु समेष्वप्यादर्शेषु एतादृश एव पाठः, परं कर्मप्रकृतिटीकायां -कार्मण ७रूपाणि वैक्रियचतुष्क-तैजसत्रिकरूपाणि वा सप्त बन्धनानि बध्नता सप्त / वैक्रियच इत्येवंरूपः पाठो दृश्यते //