________________ 1) __शतकनामा पञ्चमः कर्मग्रन्थः / च्छिन्नो भवति न च मिथ्यात्वस्येवापरा सजातीया प्रकृतिरस्ति तदा तद्भागलभ्यं द्रव्यं सर्वमपि मूख्पकृत्यन्तर्गतामा विजातीयप्रकृतीनामपि भवति / यदा ता अपि व्यवच्छिन्ना भवन्ति तदा तहलिकं सर्वमप्यन्यस्या मूलप्रकृतेः सम्पद्यते / / निदर्शनं चात्र यथा-स्त्यानचित्रिकस्य बन्धव्यवच्छेदे तद्भागलम्यं द्रव्यं सर्वमपि सजातीययोनिद्रा-प्रचलयोर्भवति, तयोरपि बन्धविच्छेदे सति स्वमूलपकृत्यन्तर्गतानां चक्षुर्दर्शनावरणादीनां विजातीयानामपि भवति, तेषामपि च बन्धे विच्छिन्ने उपशान्तमोहाघवस्थायां निःशेष सातवेदनीयस्यैव भवति / मिथ्यात्वस्य तु बन्धविच्छेदे सति सजातीयाभावात् तद्भागलभ्यं दलिकं सर्व विजातीयानामेव क्रोधादीनामाघद्वादशकषायाणां भवतीत्यनया दिशा तावद् नेयं यावत् सूक्ष्मसम्परायगुणस्थाने मोहनीयस्य भागलभ्यं द्रव्यं षड्भागतया भवति / तत ऊर्ध्वमुपशान्ताघवस्खायां सर्वथा शेषमूलपकृतीनां बन्धविच्छेदे तद्भागलभ्यं द्रव्यं सर्व सातवेदनीयस्यैव भागतया भवतीति / अत्रैव कर्मप्रकृतिटीकाकारोपदर्शितं स्वस्वोत्तरप्रकृतीनामुत्कृष्टपदे जघन्यपदे बाल्पबहुवं विनेयजनानुग्रहाय प्रदर्श्यते-तत्रोत्कृष्टपदे सर्वस्तोकं प्रदेशानं केवलज्ञानावरणस्य, सतो मनःपर्यवज्ञानावरणस्यानन्तगुणम् , ततोऽवधिज्ञानावरणस्य विशेषाधिकम् , ततः श्रुतज्ञानावरणस्य विशेषाधिकम् , ततो मतिज्ञानावरणस्य विशेषाधिकम् / तथा दर्शनावरणे उत्कृष्टपदे सर्वस्तो प्रचलायाः प्रदेशाप्रम्, ततो निद्राया विशेषाधिकम्, ततः प्रचलाप्रथलाया विशेषाधिकम्, ततो निद्रानिद्राया विशेषाधिकम्, ततः स्त्यान.विशेषाधिकम् , ततः केवलदर्शनावरणस्य विशेषाधिकम्, ततोऽवधिदर्शनावरणस्यानन्तगुणम्, ततोऽचक्षुर्दर्शनावरणस्य विशेषाधिकम्, ततअक्षुर्दर्शनावरणस्य विशेषाधिकम् / तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमसातवेदनीयस्य, तप्तः सातवेदनीयस्य विशेषाधिकम् / तथा मोहनीये सर्वस्तोकमुस्कृष्टपदे प्रदेशाममप्रत्याख्यानावरणमानस्य, ततोऽप्रत्याख्यानावरणक्रोधस्य विशेषाधिकं, ततोऽप्रत्याख्यानावरणमायाया विशेषाधिकं, ततोऽप्रत्याख्यानावरणलोमस्य विशेषाधिकं, ततः प्रत्याख्यानावरणमानस्य विशेषाधिक, ततः मस्याख्यानावरणक्रोधस्य विशेषाधिकं, ततः प्रत्याख्यानावरणमायाया विशेषाधिक, ततः प्रत्याख्यानावरणलोभस्य विशेषाधिकं, ततोऽनन्तानुबन्धिमानस्य विशेषाधिकं, ततोऽनन्तानुबन्धिकोषस्य विशेषाधिकं, ततोऽनन्तानुबन्धिमायाया विशेषाधिकं, ततोऽनन्तानुबन्धिलोभस्य विशेषात्रिकम् / ततो मिथ्यात्वस्य विशेषाधिकम् / ततो जुगुप्साया अनन्तगुणम्, ततो भयस्य निरोप्राधिकम् / ततो हास्य-शोकयोर्विशेषाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुख्यम् / ततो रतिभरल्योर्विशेषाधिकं, तयोः पुनः स्वस्थाने तुल्यम् / ततः स्त्रीवेद-नपुंसकवेदयोर्विशेषाधिकं, स्वसाने तुइयोरपि परस्परं तुल्यम् / ततः संज्वलनक्रोधस्य विशेषाधिकं, ततः संज्वलनमानस्थ विरोपातिकम् / ततः पुरुषवेदस्य विशेषाधिकम् / ततः संज्वलनमायाया विशेषाधिकं, ततः संज्या सं० 1 त० छा० °न्धव्यवच्छे० // 2 सं० 2 °न्धव्यवच्छेदो // 3 यद्यपि कर्मप्रकृतिडीकायाम्-'स्यानन्तगुणं' एतादृश एव पाठः समस्ति, तथापि अस्मत्पार्थस्थेषु एतद्प्रम्यस्य समेष्वयाइयेषु-स्म विशेषाधिकम्' इत्येषंरूपः पाठः समस्तीति //